________________
उद्देशक ः १, मूलं-५, [भा. ११९०]
३१७ अपि प्रत्येक मिश्रा वा भवन्ति ।। एवं समवसरणे विरचिते सति किं भवति? इत्याह[भा.११९१] सव्वं व देसविरई, सम्मं घेच्छइ व होइ कहणा उ ।
___ इहरा अमूढलक्खो, न कहेइ भविस्सइ न तं च ।। वृ-सर्वविरतिं वा देशविरति वा सम्यग्दर्शन वा कश्चिद् ग्रहीष्यतीति ज्ञात्वा भगवतः 'कथना' धर्मदेशना भवति । 'इतरथा' सम्यक्त्वग्रहणस्याप्यभावे मूढं-विपर्ययमुपगतं लक्ष्यंज्ञेयवस्तुयस्य समूढलक्ष्योन तथाअमूढलक्ष्यो यथावस्थितवस्तुवेदीति भावः, एवंविधोभगवान् 'नकथयति' न करोतिधर्मदेशनाम् । आह यद्येवंतर्हि समवसरणकरणप्रयासो विबूधानामपार्थकः प्राप्नोतीत्याह-भविष्यति न तच्च तद् भगवत्यपि धर्मकथां कुर्वाणेऽन्यतमोऽप्यन्यमत् सामायिक न प्रतिपद्यते, भगवतः सातिशयत्वात् । भविष्यत्कालनिर्देशस्त्रिकालोपलक्षणार्थ ।। [भा.११९२] मनुए चउमनयरं, तिरिए तिन्नि व दुवे व पडिवजे ।
___ जइ नत्थि नियमसो चिय, सुरेसु सम्मत्तपडिवत्ती ।। वृ-मनुष्यश्चतुर्णां सामायिकानां सम्यक्त्व-श्रुत-देशविरति-सर्वविरतिरूपाणामन्यतरत् प्रतिपद्यते।तिर्यञ्चः 'त्रीणि वा' सम्यक्त्व-श्रुत-देशविरतिरूपाणि, द्वेवासम्यक्त्व-श्रुतसामायिके प्रतिपद्यन्ते। यदि मनुष्य-तिरश्चां मध्ये कश्चित् प्रतिपत्ता नास्ति ततो नियमत एव ‘सुरेषु' देवेषु कस्यापि सम्यक्त्वप्रतिपत्तिर्भवति ॥सच भगवानित्यं धर्ममाचष्टे[भा.११९३] तित्थपणमं काउं, कहेइ साहारणेण सद्देणं ।
सव्वेसिं सन्नीणं, जोयणनीहारिणा भगवं ।। वृ- 'नमस्तीर्थाय' इत्यभिधाय प्रणामं च कृत्वा सर्वेषां सुर-नरादीनां संज्ञिनां जीवानां 'साधारणेन' स्वस्वभाषापरिणमनसमर्थेन योजनीहारिणा योजनव्यापिना शब्देन भगवान् धर्म कथयति । किमुक्तं भवति?-भगवतो दिव्यध्वनिरशेषाणामपि समवसरणवर्त्तिनांसंज्ञिजन्तूनां जिज्ञासितार्थप्रतिपत्तिनिबन्धनमुपजायते ॥आह कृतकृत्योऽपि भगवान् किमिति तीर्थप्रमाणं करोति? इति उच्यते[भा.११९४] तप्पुब्विया अरहया, पूइयपूया य विनयमूलं च ।
कयकिच्चो विजह कहं, कहइ नमए तहा तित्थं ।। वृ-'तीर्थ' श्रुतज्ञानंतत्पूर्विका 'अर्हत्ता' तीर्थकरता, न खलु भवान्तरेषु श्रुताभ्यासमन्तरेण भगवत एवमेवाऽऽर्हन्त्यलक्ष्मीरुपढौकते।तथा पूजितस्य पूजा पूजितपूजा, सा च तीर्थस्य कृता भवति, पूजितपूजको हि लोकः, ततो यद्यहं तीर्थं पूजयामि ततस्तीर्थकरस्यापि पूज्यमिदमिति कृत्वालोकोऽपि पूजयिष्यति।तथा विनयमूलं धर्मप्ररूपयिष्यामि, अतः प्रथमतो विनयंप्रयुञ्जे, येनलोकः सर्वोऽपि मद्वचनंसुतरां श्रद्दधीत।अथवा कृतकृत्योऽपि भगवान् यथा कथांकथयति तथा तीर्थमपि नमति । आह नन्वेतदप्यसमीचीनं यत् कृतकृत्यः सन् धर्मदशनां करोति, नैवम्, अभिप्रायापरिज्ञानाद, भगवता हि तीर्थकरनामगोत्रं कर्मावश्यवेदयितव्यम्, तस्य च वेदनेऽयमेवोपायो यद् अग्लान्या धर्मदेशनादिकरणम्, "तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणनाईहिं" ति वचनात् ॥ गतं समवसरणद्वारम् । अथ “केवइय" त्ति द्वारम् । कियतो भूभागादवश्यं समवसरणे आगन्तव्यम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org