________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
मनुष्यस्त्रियश्चप्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति । "जं च निस्साए " त्ति यः परिवारः 'यं' देवं मनुजं वा 'निश्राय' निश्रां कृत्वा आगतः स तस्यैव पार्श्वे तिष्ठति ॥ अत्रान्तरे भाष्यादर्शेषु केषुचिदेता गाथा दृश्यन्ते
अनगारा वेमाणियवरंगणा साहुणी य पुव्वेणं । पविसंति विविहमणि - रयणकिरणनिकरेण दारेणं ॥ जोइसिय भवन- वणयरदयिता लायन्न रूवकलियाओ । पविसंति दक्खिणेणं, पडाय-झयपंतिकलिएणं । जोइसिय भवण वणयर, ससंभमा ललियकुंडलाहरणा । पविसंति पच्छिमेणं, वि तुंगदिप्पंतसिहरेणं ॥ समहिंदा कप्पोवगदेवा राया नरा य नारीओ । पविसंति उत्तरेणं, पवरमणिमऊहओहेणं ॥
एताश्च द्वयोरपि चूण्योरगृहीतत्वात् प्रक्षेपगाथाः सम्भाव्यन्ते । उक्तार्थाः सुगमाश्चेति ॥ अभिहितार्थोपसङ्ग्रहायाह
३१६
[भा. ११८८] एक्क्कीए दिसाए, तिगं तिगं होइ सन्निविनं तु । आइ-चरिमे विमिस्सा थी- पुरिसा सेस पत्तेयं ॥
वृ- एकैकस्यां दिशि त्रिकं त्रिकं 'सन्निविष्टम्' उपविष्टमूर्ध्वस्थितं वा भवति । तथाहिदक्षिण-पूर्वस्यां दिशि संयता वैमानिकाङ्गनाः संयत्यश्चेति त्रयम्, अपरदक्षिणस्यां भवनपतिज्योतिष्कव्यन्तरदेवीनांत्रयम्, उत्तरापरस्यां भवनपति ज्योतिष्क-व्यन्तरदेवानां त्रयम्, उत्तरपूर्वस्यां वैमानिकदेव - मनुष्य मनुष्यीणां त्रयमिति । अत्र चाद्ये चरमे च त्रिके विमिश्राः स्त्री-पुरुषाः, स्त्रयः पुरुषाश्चोभयेऽपि भवन्तीति भावः । 'शेषयोस्तु' मध्यमयोर्द्वयोस्त्रिकयोः स्त्रयः पुरुषाश्च 'प्रत्येकमिति' निर्मिश्रा एव भवन्तीति । तेषां चेत्थं स्थितानां सुर-नराणां स्थितिमाह
[भा. ११८९] इंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । न वि जंतणा न विकह, न परोप्परमच्छरो न भयं ॥
वृ- येऽल्पर्द्धयः पूर्वं भगवतः समवसरणे स्थितास्ते आगच्छन्तं महर्द्धिकं 'प्रणिपतन्ति' नमस्कुर्वन्ति । अथ महर्द्धिकः प्रथमं स्थितः ततो येऽल्पर्द्धयः पश्चादागच्छन्ति ते महर्द्धिकं पूर्वस्थितमपि प्रणमन्तो व्रजन्ति यथास्थानम् । तथा नापि तेषां तत्रस्थितानां 'यन्त्राणा' 'न गन्तव्यं भवता अतः स्थानात्' इति लक्षणा, न 'विकथा' स्त्रकथादिरूपा सामान्यतो वार्त्ता प्रबन्धात्मका वा, न परस्परं 'मत्सरः' प्रद्वेषः, न 'भयं' सन्त्रासः कुतोऽपि बलवतो वैरिणः सकाशात्, प्रत्युत भगवतः साम्यसुधासिन्धुपूरेण प्लावितमनसां षां विलीयन्ते विरोधानुबन्धविषोर्मय इति ।। आह प्राकाराणां बाह्ययोर्द्वयोरन्तरयोः के तिष्ठन्ति ? इत्याह
[भा. ११९०] बिइयम्मि होंति तिरिया, तइए पागारमंतरे जाणा । पागारजढे तिरिया, वि होंति पत्तेय मिस्सा वा ।।
वृ- द्वितीये प्राकारान्तरे भवन्ति 'तिर्यञ्चः' सिंह- हस्त्यादयः । तृतीये तु प्राकारान्तरे 'यानानि' वाहनानि भवन्ति। 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः तिर्यञ्चः, अपिशब्दाद् मनुष्य देवा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International