________________
उद्देशक : १, मूलं- ६, [भा. ११८३ ]
३१५
भवति, स च ज्येष्ठोऽन्यो वा भवेत्, प्रायो ज्येष्ठ एव । स च ज्येष्ठगणिरन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे दिग्भागे 'अदूरे' प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदति । शेषा अपि गणधरा एवमेवाभिवन्द्य ज्येष्ठगणधरस्य मार्गतः पार्श्वतश्च निषीदन्तीति ॥
आह भुवनगुरुरूपस्य सकलत्रिभुवनातिशायित्वात् त्रिदशकृतानां प्रतिरूपकाणां तेन सह साम्यम् ? असाम्यं वा ? इत्याशङ्कानिरासार्थमाह
[भा. ११८४] जे ते देवेहि कया, तिदिसिं पडिरूवगा जिनवरस्स । तेसि पि तप्पभावा, तयानुरूवं हवइ रूवं ॥
वृ- यानि तानि देवैः कृतानि तिसृषु दिक्षु जिनवरस्य प्रतिरूपकाणि तेषामपि 'तत्प्रभावात्' तीर्थकरणप्रभावात् 'तदनुरूपं' तीर्थकररूपानुरूपं रूपं भवति ।। अथ ये यथा भगवतः समवसरणे निषीदन्ति तिष्ठन्ति तानभिधित्सुः सङ्ग्रहगाथामाह
[भा. ११८५] तित्थाऽइसेससंजय, देवी वेमाणियाण समणीओ । भवणवइ-वाणमंतर - जोइसियाणं च देवीओ ॥
वृ- 'तीर्थं' गणधरस्तस्मिन् उपविष्टे सति अतिशायिनः संयता उपविशन्ति, ततो देव्यो वैमानिकानाम्, ततः श्रमण्यः, तथा भवनपति - व्यन्तर-ज्योतिष्काणां च देव्य इति ।।
अथैतदेव विवृणोति
[ भा. ११८६ ] केवलिणो तिउण जिनं, तित्थपणामं च मग्गओ तस्स । मणमाई वि नमंता, वयंति सट्टाण सट्ठाणं ॥
वृ- केवलिनः पूर्वद्वारेण प्रविश्य जिनं 'त्रिगुणं' त्रिप्रदक्षिणीकृत्य 'नमस्तीर्थाय' इति वचसा तीर्थप्रमाणं च कृत्वा 'तस्य' तीर्थस्य प्रथमगणधररूपस्य शेषगणधराणां च 'मार्गतः' पृष्ठतो दक्षिणपूर्वस्यां निषीदन्ति । तथा "मणमाई वि"त्ति मनः पर्यवज्ञानिन आदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्षौषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तं त्रिप्रदक्षिणीकृत्य नमस्कृत्य च 'नमस्तीर्थाय नमो गणधरेभ्यः, नमः केवलिभ्यः' इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति । शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुं प्रदक्षिणीकृत्य वन्दित्वा च 'नमस्तीर्थाय नमो गणभृम्यः, नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः' इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति । एवं मनः पर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति । तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिप्रदक्षिणीकृत्य नत्वा च 'नमस्तीर्थाय नमः सर्वसाधुभ्यः' इत्यभिधाय निरतिशयसाधूनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति । श्रमण्योऽपि पौरस्त्यद्वारेण प्रविश्य तीर्थकृतं प्रदक्षिणीकृत्य प्रणम्य च तीर्थस्य साधूनां च नमस्कारं विधाय वैमानिकदेवीनांपृष्ठतस्तिष्ठन्ति न निषीदन्ति । भवनपतिदेव्यो ज्योतिष्कदेव्यो व्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति ।
[भा. ११८७ ] भवणवई जोइसिया, बोधव्वा वानमंतरसुरा य । वैमाणिया य मनुया, पयाहिणं जं च निस्साए ।
वृ- भवनपतयो ज्योतिष्का वानमन्तरसुराश्च एते भगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International