________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
सर्वरत्नमयान्येव पताकाध्वजप्रधानानि तोरणानि भवन्ति । कथम्भूतानि ? 'चित्राणि' चन्दनकलशस्वस्तिक-मुक्तादामादिभिरनेकरूपाणि आश्चर्यकारीणि वा ॥ व्यन्तरकृत्यमाह
[भा. ११८० ] चेइदुम पेढ छंदग, आसण छत्तं च चामराओ य । जं चनं करणिजं, करिति तं वाणमंतरिया ॥
३१४
वृ- 'चैत्यद्रुमम्' अशोकवृक्षम्यन्तरप्राकारस्य बहुमध्यदेशभागे भगवतः प्रमाणाद् द्वादशगुणसमुच्छ्रयम् । तस्याधस्तात् पीठं सर्वरत्नमयम् । तस्यापि पीठस्योपरि चैत्यवृक्षस्याधस्ताद् देवच्छन्दकम् । तस्य देवच्छन्दकस्याभ्यन्तरे सिंहासनम् । तस्योपरि च्छत्रातिच्छत्रम् । 'चः' समुच्चये । उभयापार्श्वतश्चामरे यक्षहस्तगत । चशब्दाद् भगवतः पुरतो धर्मचक्रं पद्मप्रतिष्ठितम् । यच्च 'अन्यद्' वातोदकादिकं 'करणीयं' कर्त्तव्यं कुर्वन्ति तद् वानमन्तरा देवा इति ।। आह किं यद् यत् समवसरणं भवति तत्र तत्रायमित्थं नियोगः ? उतन? इति, अत्रोच्यते
[भा. ११८१] साहारण ओसरणे, एवं जत्थिड्ढिमं तु ओसरई । एक्को चिय तं सव्वं, करेइ भयणा उ इयरेसिं ।।
वृ- साधारणं यत्र बहवो देवेन्द्रा आगच्छन्ति तत्र समवसरणे 'एवम्' अनन्तरोक्तो नियोगः । यत्र तु 'ऋद्धिमान् कश्चिदिन्द्रसामानिकादि 'समवसरति' आगच्छति तत्रैक एवासौ 'तत्' प्रकारादिकं सर्वमपि करोति । "भयणा उ इयरेसिं" ति यदीन्द्रादयो महर्द्धिका नागच्छन्ति ततः 'इतरे' भवनवास्यादयः कुर्वन्ति वा न वा समवसरममित्येवं भजना कार्येति । अत्रविशेषचूर्णावित्थं विशेषो दृश्यते-चाउक्कोणा तिनि पागारा रइज्जति चउद्दारा । अब्मिंतरिल्लो लोहियक्खेहिं, मज्झिल्लो पीयएहिं, बाहिरिल्लो सेयएहिं । सव्वो समोसरणभागो जोयणं । अब्मिंतर-मज्झिमाणं पागाराणं अंतरं जोयणं । मज्झिम- बाहिराणं पागाराणं अतरं गाउअं ति । इत्यं देवैः समवसरणे विरचिते सति यथा भगवान् तत्र प्रविशति तथाऽभिधातुकाम आह
[ भा. ११८२ ] सूरुदय पच्छिमाए, ओगाहिंतीए पुव्वओ एति । दोहि पउमेहि पाया, मग्गेण य होंति सत्तऽन्ने ।
वृ- 'सूर्योदये' प्रथमायां पौरुष्याम् अपराह्णे तु पश्चिमायाम् 'अवगाहमानायाम्' आगच्छन्त्यामित्यर्थः 'पूर्वतः पूर्वद्वारेण भगवान् 'एति' आगच्छति प्रविशतीत्यर्थः । कथम् ? इत्याह-द्वयोः ‘पद्मयोः' सहस्रपत्रयोर्देवपरकल्पितयोः पादौ स्थापयन्नित्युपस्कारः । " मग्गेण य"त्ति प्राकृतत्वाद् विभक्तिव्यत्यये 'मार्गतः' पृष्ठतो भगवतः सप्ताऽन्यानि पद्मानि भवन्ति, तेषां च यद् यत् पाश्चात्यं तत् तत् पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति ॥
ततः प्रविश्य किं करोति ? इत्याह
[भा. ११८३ ] आयाहिण पुव्वमुहो, तिदिसिं पडिरूवया य देवकया। गणी अन्नोवा, दाहिणपुब्वे अदूरम्मि ।।
वृ-‘“आयाहिण’त्ति भगवान् चैत्यद्रुमस्य प्रदक्षिणां विधाय पूर्वमुखः सिंहासनमध्यास्ते । यासु च दिक्षु भवतो मुखं न भवति तासु तिसृष्वपि तीर्थकराकारधारकाणि सिंहासन-चामरच्छत्रधर्मचक्रालंकृतानि प्रतिरूपकाणि देवकृतानि भवन्ति, यथा सर्वोऽपि लोको जानीते 'भगवानस्माकं पुरतः कथयति' । भगवतश्च पादमूलं जघन्यत एकेन गणिना- गणधरेणाऽविरहितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org