________________
उद्देशक : १, मूलं-६, [भा. ११७६]
३१३
[मा.११७६]समोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे ।
दानं च देवमल्ले, मल्लाणयणे उवरि तित्थं ।। वृ-समवसरणविषयो विधिर्वक्तव्यः । “केवइय"त्ति कियतो भूमागाद् अपूर्वसमसरणे अटरूपतया भगवतः प्रयोजनम् ? इति पृच्छा प्रतिवचनं च वाच्यम् । “वागरणं" ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सङ्ख्यातीतानामपिपृच्छतां व्याकरोति तथा श्रोतृषुपरिणामः श्रोतृपरिणामः स वक्तव्यः, तथा भागवती वाणी सर्वेषां स्वस्वभाषया परिणमते । वृत्तिदानं प्रीतिदानं वा कियत्प्रयच्छन्ति चक्रवर्तादयस्तीर्थकरप्रवृत्तिनिवेदकेभ्यः? तथा 'देवमालंय' बलि, देवाअपितत्र गन्धादिप्रक्षिपन्तीति कृत्वा तत्कः कथङ्कारंकरोति? इति। "मल्लाणयणे"त्ति तस्य च माल्यस्यानयने यो विधि 1 "उवरि तित्थं"ति उपरि प्रथमपौरुष्यां व्यतीतायां 'तीर्थं प्रथमगणधरो धर्मदेशनां करोति । तदेतत् सर्वमभिधातव्यमिति द्वारगाथासङ्केपार्थः ।।
अथैनामेव प्रतिद्वारं विवरीषुराह[भा.११७७] जत्थ अपुव्वोसरणं, जत्थ व देसो महिड्डिओ एइ।
वाउदय पुष्फ वद्दल, पागारतियं च अभिओगा॥ कृ'यत्र क्षेत्रेसमवसरणम् 'अपूर्वम्'-अवृत्तपूर्वग्रवाभूतपूर्वसमवसरमेऽपि देवोमहर्द्धिको वन्दितुम् ‘एति' आगच्छति तत्र नियमतः समवसरणं भवतीति वाक्यशेषः, अर्थादापन्नम् अन्यत्र न नियम इति । तच्च कथं कुर्वन्ति? इत्याह-“वाउदय" इत्यादि । शक्रादेः सम्बन्धिन आभियोग्या देवाः स्वस्वामिनो नियोगाभगता समवसरिष्यमाणां भुवमागम्ययोजनपरिमण्डलं संवर्तकवातं विकुर्वन्ति, तेन च सर्वतः प्रसर्पता रेणु-तृण-काष्ठादिकः कचवरनिकरः सर्वोऽपि बहि क्षिप्यते, ततो भाविरेणुसन्तापोपशान्तये उदकवर्दलं विकुळ तेन सुरभिगन्धोदकवर्षं कुर्वन्ति, ततः पुष्पवर्दलं विकुळ जानुदध्नीमधोनिक्षिप्तवृन्तां पुष्पवृष्टिं निसृजन्ति, ततश्चामी प्राकारत्रयं कुर्वन्ति। कथम्? इत्याह[भा.११७८]अभितर-मज्झ-बहि, विमाण-जोइ-भवणाहिवकयाओ ।
पायारा तिन्नि भवे, रयणे कणगे रयए य॥ आभ्यन्तर-मध्यम-बाह्यायथाक्रमविमान-ज्योति-भवनाधिपकृताःप्रकारास्त्रयो भवन्ति तत्राभ्यन्तरः प्राकारो रलेनिवृत्तः ‘रालः'-रलमयः,तंविमानाधिपतयः कुर्वन्ति।मध्यमःप्राकारः 'कानकः' कनकमयः, तं ज्योतिष्का देवाः कुर्वन्ति । बाह्यः प्राकारः 'राजतः' रूप्यमयः, तं भवनाधिपतयः कुर्वन्तीति । [भा.११७९]मणि-रयण-हेमया विय, कविसीसा सव्वरयणिया दारा ।
सव्वरयणामय च्चिय, पडाग-झय-तोरणा चित्ता ।। वृ-आभ्यन्तरपाकारस्य मणिमयानि कपिशीर्षकाणि, मध्यमप्रकारस्य रलमयानि । अथ मणीनां रलानां च कः प्रतिविशेषः ? उच्यते-चन्द्रकान्तादयो मणयः, इन्द्रनीलादीनि रत्नानि; अथवा स्थलसमुद्भवा मणयः, जलसमुद्भवानि रलान्युच्यन्ते । बाह्यप्राकारस्य हेममयानिजात्यसुवर्णमयानि कपिशीर्षकाणि । एतानि च यथाक्रमं वैमानिक-ज्योतिष्क-भवनपतयः स्वस्वप्राकारेषु कुर्वन्ति । प्राकारत्रयेऽपि प्रत्येकं सर्वरलमयानि चत्वारि चत्वारि द्वाराणि, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org