________________
३१२
बृहत्कल्प-छेदसूत्रम् -१-१/६ भगवद्भिरधीतं यस्मादसौ शिष्यो जिनकल्पिको भविष्यति सच जिनकाले वाभवेत् केवलिकाले वा? ॥अतः स आचार्य प्रतिब्रूयात्[भा.११७३] अंतरमनंतरे वा, इति उदिए धूलिनायमाहंसु ।
चिक्खल्लेण य नायं, तम्हा उ वयामि जिनमूलं ॥ वृ-अन्तरं-परम्परकेणमयाऽधीतम् अनन्तरंवा । तत्र यदि सआचार्यो गणधरशिष्यस्तस्याप्याराद्धा ततः ‘परम्परकेणाधीतम्' इत्यभिदध्यात् । अथासौ गणधर एव ततः 'अनन्तरं जिनसकाशएवमयाऽधीतम् इतिब्रूयात् । 'इति' एवम् ‘उदिते' आचार्येणाऽभिहितेसशिष्यो धूलिज्ञातंचिखल्लज्ञातं चाख्यातवान् यथा धूलिरेकत्र स्थापयित्वा तत उद्धृ त्यान्यत्र यत्रास्तीर्यते तत्रावश्यं किञ्चित् परिशटति, ततोऽप्यन्यत्र प्रस्तीर्यमाणा भूयस्तरा परिशटति; यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया चिक्खल्लः प्रत्यर्यमाणो बहुपरिशटितः स्तोकमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तंप्राप्नोति; एवमेतावपि सूत्रार्थौ परम्परया गृह्यमाणौ परिशटत-,तस्मात्तु 'जिनमूलं तीर्थकरोपकण्ठमेव व्रजामि, तत्राविनष्टमेव सूत्रं भविष्यतीति॥कैः पुनस्तत्परिशटति? इत्याह[भा.११७४] पय-पाय-मक्खरेहि, मत्ता-धोसेहिं वा विपरिहीनं ।
अवि य रवि-राय-हत्थी, पगास सेवा पया चेव ॥ वृ-पदैः पादैरक्षरैमात्रया घोषैर्वा अपिशब्दाद् बिन्दुना वा परिहीणं भवति परम्परया अधीयमानं श्रुतमिति प्रक्रमः। 'अपिच' इत्यभ्युच्चये, भगवतः समीपेअधीयमानानां कारणान्तरमप्यस्तीति भावः । किं याद्दशो रवेः-आदित्यस्य प्रकाशः ईशः किं स्वद्योतादीनां सम्भवी ? यादृशं वा राज्ञः सेवा विधीयमाना फलमुपढौकयति ईशं किममात्यादीनां सेवा सम्पादयति? याशानि वा महान्ति हस्तिनः पदानि ईशानि किं कुन्थूनां सम्भवन्ति? एवं याद्दशानिमहार्थानि भगवतस्तीर्थकृतो वचनानि ईशान्यपरेषां किं कदाचिद् भवन्ति ? इत्यतस्तीर्थकरोपकण्ठमेव व्रजामि ॥ इत्यं शिष्येणोक्ते सूरिराह[भा.११७५] कोट्ठाइबुद्धिणो अस्थिं संपयं एरिसाणि मा जंप।
अवि य तर्हि वाउलणा, विरयाण वि कोगाईहिं ।। वृ-यथा कोष्ठके धान्यं प्रक्षिप्तं तदवस्थमेव चिरमप्यवतिष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रा-ऽथी निक्षिप्तौ दवस्थावेव चिरमप्यवतिष्ठेते ते कोष्ठबुद्धयः । आदिशब्दात् पदानुसारिबुद्धयो बीजबुद्धयश्च गृह्यन्ते । तत्र ये गुरुमुखादेकसूत्रपदमनुसृत्य शेषमश्रुतमपि भूयस्तरं पदनिकुरम्बमवगाहन्ते ते पदानुसारिबुद्ध्यः, ये त्वेकं बीजभूतमर्थपदमनुसृत्य शेषमवितथमेवप्रभूततरमर्थपदनिवहमवगाहन्तेते बीजवुद्धयः, एवंविधाः कोष्ठादिबुद्धयः साम्प्रतमपि सन्ति येषु सूत्रार्थो न परिशटत इति भावः । तद् ईशानि धूलिज्ञातादीनि ‘मा जल्प' मा ब्रूहि । अपिच 'तत्र भगवतःसमीपेअधीयमानानां विरतानामपि साधूनामपि कौतुकादिभिः व्याकुलना' व्याकुलीकरणंभवति, सकलस्यापिलोकस्यकौतुकहेतुत्वात्।कौतुकं-समवसरणम्, आदिग्रहणेन भगवतो धर्मदेशनाश्रवणादिपरिग्रहः ॥अथ किमिदं समवसरणम् ? इति तद्वक्तव्यतां प्रतिपिपादयिषुरिगाथामाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org