________________
उद्देशक : १, मूलं -६, [भा. ११६८ ]
स्थिरचित्तवृत्ति 'विहरति ' संयमाध्वनि गच्छतीति ।। गतं निष्कम्पताद्वारम् । अथ तपोद्वारमाह[भा. ११६९] बारसविहम्मि वि तवे, सब्मितरबाहिरे कुसलदिट्ठे । वि अत्थिन विअ होही, सज्झायसमं तवोकम्मं ॥
वृ- द्वादशविधेऽपि तपसि 'साभ्यन्तरबाह्ये' सहाऽऽभ्यन्तरेण यद् बाह्यं तत् साभ्यन्तरबाह्यम्। तत्राभ्यन्तरं तपः षोढा
प्रायश्चित्त-ध्याने, वैयावृत्य-विनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ।।
बाह्यमपि षोढा
३११
अनशनमूनोदरता, वृत्ते सङ्क्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्ताम् ॥
तथा कुशाः- द्रव्यतो दर्भादयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्तिसमूलानुत्पाटयन्तीति कुशलाः, "पृषोदरादयः” इति रूपनिष्पत्ति, तीर्थकरा इत्यर्थः, तैर्दष्टे - कर्मक्षपणकारणतया केवलद्दष्टया वीक्षिते, परं वाचनादिरूपो यः स्वाध्यायस्तत्समं तत्तुल्यं तपः कर्म नास्ति नापि भविष्यति चशब्दाद् न चाभूत्, प्रभूततरकर्मक्षपणहेतुत्वादिति ॥
तं तपोद्वारम् । अथ निर्जराद्वारमाह
[भा. ११७० ] जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमेत्तेण ॥
वृ-यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्त्तमानो बह्वीभिर्वर्षकोटीभि कर्म क्षपयति 'तत्' कर्म ज्ञानी 'त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छ्वासमात्रेणापि कालेन क्षपयति ॥
गतं निर्जराद्वारम् । अथ परदेशकत्वद्वारमाह
[ भा. ११७१] आय-परसमुत्तारो, आणा वच्छल्ल दीवणा भत्ती । होति परदेसियत्ते, अव्वोच्छित्ती य तित्थस्स ॥
वृ-पठितः सन् परेषां देशकत्वं मार्गदशित्वं करोति, तस्मिन् आत्मनः परस्य च समुत्तारो भवति । तथाहि स साधुरधीतश्रुतः सन् अपरान् साधून् अध्यापयन् आत्मनो ज्ञानावरणीयं कर्म उपहन्ति, ते च साधवो ज्ञानोपदेशेनाऽचिरादेवापारसंसारमहोदधेरुत्तरन्ति । एवं च कुर्वता तीर्थकृतामाज्ञा अध्याप्यमानसाधूनां च वात्सल्यं तथा दीपना- प्रभावना भक्तिश्च पारमेश्वरप्रवचनस्य एतानि कृतानि भवन्ति, तीर्थस्य चाऽव्यच्छित्तिरासूत्रिता भवति । एते गुणाः परदेशकत्वे भवन्तीति ।। गतं परदेशकत्वद्वारम् । ततश्चावसिता "आयहिय" इत्यादि द्वारगाथा ।
अथ प्रकृतयोजनां कुर्वन्नाह
[भा. ११७२] जिनकप्पिएण पगयं, जिणकाले सो उ केवलीणं वा । सो भइ एव भणितो, कत्थ अहीयं भयंतेहिं ॥
वृ- अत्र जिनकल्पिकेन प्रकृतम् । 'स तु' जिनकल्पिको नियमाद् जिनस्य-तीर्थकरस्य काले वा स्याद् अपरेषां वा गणधरादीनां केवलिनां काले । ततः 'सः' शिष्यः 'एवं' हेतु- ध्ष्टान्तैः 'भणितः ' प्रज्ञापितो भणति भगवन्! यद्येवं ततः पठाम्यहम् परमाचक्षतां पूज्यां कुत्र 'भदन्तैः '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org