________________
पीठिका - [भा. ९६
वृ-करणवशात्सम्यग्दर्शनलाभेएतान्यष्टादुदाहरणानि।तद्यथा-"नदि"त्तिगिरिनदीप्रस्तरोदाहरणम् १ पथदृष्टान्तः २ ज्वरोदाहरमम् ३ वस्त्रोदाहरणम् ४ जलोदाहरणम् ५ पिपीलिकोदाहरणम् पुरुषोदाहरणम्७कोद्रवोदाहरणम् ८॥ तत्रप्रथमतो गिरिसरित्रस्तरोदाहरंभावयति[भा.९७] गिरिसरिसपत्थरेहिं, आहरणं होइ पढमए करणे।
एवमनाभोगियकरणसिद्धितो खवण जा गंठी ।। वृ-गिरिसरिप्रस्तरैः ‘आहरणं' दृष्टान्तः 'प्रथमे यथाप्रवृत्ताख्ये करणे भवति । तच्चैवम्यथा गिरिसरियस्तरा गिरिसरिजलावेगतो घर्षण-घोलनादिना केचिद्वर्तुला भवन्ति केचित्यस्रा:केचिच्चतुरस्राः, एवम् ‘अनाभोगकरणसिद्धितः' यथाप्रवृत्तकरणप्रभावतः सुदीर्घाया अपि कर्मस्थितेस्तावत् क्षपणं यावद्ग्रन्थिरिति ।। अथ 'अनिवृत्तिकरणं सम्यक्त्पुरस्कृते जीचे भवति' इत्युक्तं तत् सम्यक्त्वं कथं लभते ? उच्यते-उपदेशतः स्वयं वा । तथा चात्र पथदृष्टान्तः
[भा.९८/१] उवएसेण सयं वा, नट्ठपहो कोइ मग्गमोतरति ।
कृनष्टपथःकोऽपिपुरुषः 'उपदेशेन अन्यं पृष्ट्वातस्योपदेशेनमार्गमवतरति, कश्चिन्मार्गानुसारिप्रज्ञतया स्वयमेवेहा-ऽपोहं कृत्वा । एवमिहापि कोऽपि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते, कश्चित्स्वयमेव जातिस्मरणादिना ।। अत्रैवज्वरदृष्टान्तमाह
[भा.९८/२] जरितो य ओसहेहिं, पउणइ कोई विना तेहिं॥
वृ-ज्वरितोऽपिकश्चिदौषधैः ‘प्रगुणति' प्रगुणीभवति, कश्चित्पुनः 'तैः' औषधैः 'विना' एवमेव । एवमत्तापि कस्यचिद्दर्शनमोह आचार्याधुपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः । इह ज्वरस्थानीयो दर्शनमोहः, औषधस्थानीय आचार्याधुपदेशः । इह यत्सत्प्रथमतया क्षायोपशमिकसम्यग्दृष्टिरुपजायते सोऽपूर्वकरणवशान्मिथ्यात्वदलिकं त्रिधा करोति। तद्यथा-मिथ्यात्वंसम्यग्मिथ्यात्वं सम्यक्त्वं च ।अत्र वस्त्रदृष्टान्तं जलदृष्टान्तंचाऽऽह[भा.९९] मइल दरसुद्ध सुद्धं, जह वत्थं होइ किंचि सलिलं वा।
एसेव य दिलुतो, दंसणमोहमम्मि तिविहम्मि । वृ-यथा किञ्चिद्वस्त्र सलिलं वामलिनं भवति, किञ्चिद् ‘दरशुद्धम् ईषद्विशुद्धम्, किञ्चित् शुद्धम् । एष एव दृष्टान्तो दर्शनमोहे त्रिविधे भावनीयः-तदप्यपूर्वकरणवशात् किञ्चित् शुद्धं सम्यकत्वरूपम्, किञ्चिदीषद्विशुद्धं सम्यग्मिथ्यात्वरूपम्, किञ्चित्तथैव मलिनं मिथ्यात्वरूपं स्थितमिति भावः ।। अत्राह-कथमभव्यास्तस्मिन् ग्रन्थिदेशेऽवतिष्ठन्ते? कथं वा ततः प्रतिपतन्ति? भव्या वा कथं ग्रन्थि विभिद्य ततः परतो गच्छन्ति? उच्यते-पिपीलिकादृष्टान्तात् । तमेवाह[भा.१००] अहभावेण पसरिया, अपुवकरणेण खाणुमारूढा ।
चिट्ठति तत्थ काई, पिपीलिया काइ उड्डुति ॥ वृ-काश्चित्पिपीलिकाः 'यथाभावेन' अनाभोगतः 'प्रसरिताः' बिलान्निर्गत्य इतस्ततो गन्तुं प्रवृत्ताः । काश्चित्पुनरपूर्वकरणेन स्थाणुमारूढाः । तासामपि मध्ये काश्चित् ‘तत्र' स्थाणावेव तिष्ठन्ति याः पक्षविहीनाः । काश्चित्सातपक्षास्ततः ‘उड्डयन्ते' ऊर्ध्वमाकाशेन गच्छन्ति ।।
[भा.१०१] पच्चोरुहणट्ठा खाणुआतो चिट्ठति तत्थ एवावि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org