________________
२८
बृहत्कल्प-छेदसूत्रम् -१क्षीणमोहाः क्षीणं मोहनीयमित्यक्षीणसप्तप्रकृतिकाः, सयोग्य-ऽयोगिकेवलिनःक्षीणघातिकर्माणः।। अथ कस्य कर्मण उत्कृष्टायां स्थितौ कस्य नियमत उत्कृष्टा स्थिति? कस्य वा भजनया ? इति, अत आह[भा.९२] आउयवजा उ ठिई, मोहोक्कोसम्मि होइ उक्कोसा।
मोहविवजुकोसे, मोहो सेसा य भइयाउ । वृ. 'मोहोत्कर्षे' मोहनीयस्योत्कृष्टायां स्थितौ सत्यां नियमत आयुर्वर्जयित्वा शेषाणां कर्मणामुत्कृष्टा स्थितिर्भवति । मोहविवर्जस्य-ज्ञानावरणीयादेरुत्कर्षे उत्कृष्टायां स्थितौ 'मोहः' मोहनीयं शेषाश्च प्रकृतयः भक्ताः' विकल्पिताः कदाचिदुत्कृष्टस्थितिका भवन्ति कदाचिन्नेति भावः । तत्र सर्वेषां कर्मणामुत्कृष्टस्थितौ वर्तमानः प्रबलमोहाच्छादितत्वान्न किमपि सम्यग्दर्शनं लभते, उक्तञ्च
अट्ठण्ह वि पगडीणं, उक्कोसठिईए वट्टमाणो उ ।
न लभति सम्मइंसण, मिच्छत्तेणं विमोहाओ ।। किन्तु सप्तानामायुर्वर्जानामभ्यन्तरकोटीकोटयां वर्तमानाः । तथा चाह[भा.९३०] अंतिमकोडाकोडीए होइ सव्वासि कम्मपगडीणं ।
पलियाअसंखभागे, खीणे सेसे हवइ गंठी ।। वृ- आयुर्वर्जानां सर्वासां कर्मप्रकृतीनामन्तिमायां कोटीकोट्यां स्थितायां तत्रापि पल्योपमस्यासङ्घयेयतमे भागे क्षीणे शेषे स्थितिदलिके सति सम्यग्दर्शनलाभो भवति । केवलं तदानीं सम्यग्दर्शनलाभान्तरायभूतः कर्कश-धन-रूढ-गुपिलवल्कग्रन्थिरिव दुर्भेदो घनरागद्वेषपरिणामरूपो ग्रन्धिर्भवति, ततस्तस्मिन् भिन्ने प्रतिपत्तव्यः ।। तस्य च भेदःकरणवशात, अतः करणवक्तव्यतामाह[भा.९४] तिविहं च होइ करणं, अहापवत्तं तु भव्व-ऽभव्वाणं ।
भवियाण इमे अन्ने, अपुव्वकरणाऽनियट्टी य॥ वृ- 'करणं' नाम परिणामविशेषः । तत् 'त्रिविधम्' त्रिप्रकारं भवति । तद्यथा-प्रथम यथाप्रवृत्ताख्यं भव्यानामभव्यानां च साधारणम्। भव्यानांपुनः इमेद्वे अन्ये करणे, अपूर्वकरणम् 'अनिवृत्तिश्च' अनिवृत्तिकरणं च ।। साम्प्रतमेतेषामेव त्रयाणां करणानां कालविभागमाह[भा.९५] जा गंठी ता पढमं, गठिं समतिच्छतो अपुव्वं तु।
अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे॥ वृ-यावद् ग्रन्थिस्तावत् 'प्रथमम्' यथाप्रवृत्ताख्यं करणम् । ग्रन्थि ‘समतिक्रामतः' भिन्दानस्येत्यर्थः पुनः 'अपूर्वम्' अपूर्वकरणम् । अनिवृत्तिकरणं तु सम्यक्त्वं पुरुस्कृतं येन स सम्यक्त्वपुरस्कृतः तस्मिन् जीवे, सम्यक्त्वाभिमुखे इत्यर्थः ॥अथ यावद्वन्थिस्तावनिर्गुणस्य सतः कथं कर्मराशेः क्षपणम् ? उच्यते-गिरिसरिअस्तरईष्टान्तात् । ततस्तमेव दृष्टान्तं तत्प्रसङ्गतः शेषकरणयोरपि दृष्टान्तानभिधित्सुरगाथामाह[भा.९६] नदि पह जर वत्थ जले, विवीलिया पुरिस कोद्दवा चेव ।
सम्मदसणलंभे, एते अट्ठ उ उदाहरणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org