________________
२७
पीठिका - [भा. ८७] कुत्सितसंज्ञकत्वात् ।। तदेवमुक्तं संज्ञिश्रुतमसंज्ञिश्रुतं च । सम्प्रति सम्यकश्रुत-मिथ्याश्रुते द्वे अपि युगपदाह[भा.८८] अंगा-ऽनंगपविलु, सम्मसुयं लोइयं तु मिच्छसुयं ।
आसज्ज उ सामित्तं, लोइय लोउत्तरे भयणा ।। वृ-स्वरूपेण लोकोत्तरिकम् अङ्गा-ऽनङ्गप्रविष्टं सम्यकश्रुतम्, लौकिकं मिथ्याश्रुतम् । स्वात्वमासाद्यपुनर्लोकिके लोकोत्तरेच 'भजना' लौकिकमपि कदाचित् सम्यकश्रुतं लोकोत्तरमपि मिथ्याश्रुतमित्यार्थः। तथाहि लौकिकमपि सम्यग्दृष्टिपरिगृहीतं सम्यकश्रुतम्, मिथ्याष्टिपरिगृहीतं लोकोत्तरमपि मिथ्याश्रुतमिति।।अथयेन सम्यक्त्वेन परिगृहीतं सम्यकश्रुतं भवति तत् किंप्रत्ययम्? अत आह[भा.८९] आभिनिबोहमवायं, वयंति तप्पचयाउ सम्मत्तं ।
जा मनपञ्जवनाणी, सम्मद्दिट्टी उ केवलिणो॥ वृ-'आभिनिबोधिकः' आभिनिबोधिकभेदोयोऽपायोयद्वशायथावस्तितार्थविनिश्चयस्तं सम्यक्त्वस्यप्रत्ययंवदन्ति पूरयः, सम्यग्ज्ञानेसम्यकश्रद्धानभावात्। 'तप्रत्ययाच्च' अपायप्रत्ययाच सम्यकत्वं तावदवसेयं यावन्मनः पर्यायज्ञानिनः, ततः परमपायस्याभावात् । केवलिनः केवलज्ञानप्रत्ययादेव सम्यग्दृष्टयः ।। अथ तत् सम्यग्दर्शनं कतिविधम् ? अत आह[भा.९०] उवसमियं सासायणं, खओवसमियं च वेदगं खइयं ।
सम्मत्तं पंचविहं, जह लब्मइ तं तहा वोच्छं। वृ-सम्यक्त्वं पञ्चविधम् । तद्यथा-औपशामिकं सासादनं क्षायोपशमिकं वेदकं क्षायिकं च । एतत् पञ्चप्रकारमपि यथा लभ्यते तथा वक्ष्यामि ।। तदेवाह[भा.९१] बंधट्टितीपमाणं, सामित्तं चेव सव्वपगडीणं।
को केवइयं बंधइ, खवेइ वा कित्तियं कोइ ।। वृ-सम्यकत्वं कर्मणां क्षयत उपशमतः क्षयोपशमतश्चोपजायते । क्षयादयश्च त्रयः प्रकारा बद्धानां कर्मणां नाबद्धानामिति प्रथमतो बन्धतः स्थितिप्रमाणं जघन्यत उत्कर्षतश्च वक्तव्यम्, तच्चैवम्-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टं स्थितिपरिमाणम्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटयः, नाम-गोत्रयोविंशतिसागरोपमकोटीकोटयः, आयुषस्त्रयस्त्रिंशत्सागरोपमाणि; तथा जघन्यं वेदनीयस्य द्वादश मुहूर्ताः, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्तम् । तथा सर्वप्रकृतीनां सत्तामधिकृत्य स्वामित्वंवक्तव्यम्, तच्चैवम्मिथ्याष्टि-सास्वादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणाऽनिवृत्तिबादर-सूक्ष्मसम्परायो-पशान्तमोहा अष्टानामपि प्रकृतीनां स्वामिनः, मोहनीयवर्जानां सप्तानांक्षीणमोहाः, वेद्या-ऽऽयु-र्नाम-गोत्राणां सयोग्य-ऽयोगिकेवलिनः। तथाकः कियद्बध्नाति? इति वक्तव्यम्, तत्र-मिथ्यादृष्टयोऽप्रमत्तान्ताः सप्तविधबन्धका वाऽष्टविधबन्धका वा, अपूर्वकरणाऽनिवृत्तिबादराः सप्तविधबन्धकाः, सूक्ष्मसम्परायाः षड्विहधबन्धकाः, उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयैकबन्धकाः, अबन्धका अयोगिकेवलिनः । तथा को वा कियत् क्षपयति? इति वक्तव्यम्, तत्र-मिथ्यादृष्टय उपशान्तमोहपर्यन्ता अक्षीणाष्टप्रकृतिकाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org