________________
बृहत्कल्प-छेदसूत्रम् -१
इय होति असन्त्रीणं, उवलंभो इंदिया जेसि ।। वृ- 'अथवा' इति दृष्टान्तस्य प्रकारान्तरोपदर्शने । मूर्च्छिते मत्ते प्रसुप्ते वा यथा अव्यक्त उपलम्भो भवति 'इति' एवंयति येषामिन्द्रियाणि तेषामसंज्ञिनांततिविध उपयोगः स्फुटोभवति।। अथ तुल्ये चेतनत्वे किमिति संज्ञिनां प्रागल्भ्येन प्रागलभ्येन चैतन्यम् ? अव्यक्तमसंज्ञिनाम् ? इति, अत आह[भा.८३] तुल्ले छेयणभावे, जं सामत्थं तु चक्करयणस्स।
तंतु जहक्कमहीणं, न होइ सरपत्तमादीणं ।। वृ- यथा तुल्ये 'छेदनभावे' छेदनत्वे यत् सामर्थ्य चक्ररलस्य तद् यथाक्रमहीनं, हेतौ प्रथमा, यथाक्रमहीनत्वात् शरपत्रादीनाम्, आदिशब्दाद्दर्भादिपरिग्रहः, न भवति । [भा.८४] एवं मनविसईणं, जा पडुया होइ उग्गहाईसु ।
तुल्ले चेयणभावे, न होइ अस्सण्णिणं सातु॥ वृ.एवम् ‘मनोविषयिणां' मनोग्राह्यो विषयोयेषामस्तिते मनोविषयिणस्तेषाम् अवग्रहादिषु या पटुता भवति सा तुल्येऽपि चेतनभावे न भवत्यसंज्ञिनाम्, मनोद्रव्यलब्ध्यभावात् । उक्तः कालिक्युपदेशेन संज्ञी असंज्ञी च । अधुना हेतूपदेशतस्तमाह[भा.८५] जेसि पवित्ति-निवित्ती, इटा-ऽनिटेसु होइ विसएसु।
ते हेउवाउ सन्नी, वेहम्मेणं घडो नायं ॥ वृ-'येषां' दीन्द्रियादीनां इष्टेषु विषयेषु प्रवृत्ति अनिष्टेषु निवृत्ति ते हेतुवादतः संज्ञिनः । अत्र वैधम्येण ‘ज्ञातं' दृष्टान्तो घटः, अनेन प्रयोगः सूचितः । स चायम्-द्वीन्द्रियादयः संज्ञिनः, इष्टा-ऽनिष्टविषयेषु यथाक्रमं प्रवृत्ति-निवृत्तिदर्शनात्, पुरुषवत्; ये तु न संज्ञिनस्तेषामिष्टाऽनिष्टविषयेषु प्रवृत्ति-निवृत्ती, तस्मादसंज्ञिनस्त इति ।उक्तो हेतुवादतोऽपि संज्ञी असंज्ञी च । सम्प्रति दृष्टिवादोपदेशेनोच्यते-ये सम्यग्दृष्टयस्ते दृष्टिवादोपदेशेन संज्ञिनः, शेषाः सर्वेऽपि मिथ्याट्योऽसंज्ञिनः । उक्तञ्च
__ सम्मद्दिवी सन्नी, दिट्ठीवायस्स होति उवएसा ।
सेसा होति असन्नी, कालिय तह हेउसन्नी य ।। ननु सम्यग्ज्ञानं मिथ्याज्ञानंच द्वे अपि क्षायोशमिके, ततः कस्मादेकः संज्ञी अपरोऽसंज्ञी इति, अत आह[भा.८६]होइ असीला नारी, जा खलु पतिणो न रक्खए सेजं ।
तंपिय हु होति सीलं, असोहणं तेन उ असीला।। वृ-या खलु लोके नारी पत्युः शय्यां न रक्षति सा भवत्यशीला, यतो यद्यपि तदपि' पत्युः शय्याया अरक्षणं शीलं तथापि तदशोभनमिति कृत्वा सा अशीला ।। [भा.८७] एवं खओवसमिएष जे वटुंते उ नाणविसयम्मि।
ते खलु हवंति सण्णी, अण्णाणी होति अस्सण्णी।। वृ- एवं तुल्येऽपि क्षायोपशमिके भावे ये 'ज्ञानविषये' सम्यग्ज्ञाने वर्तन्ते ते संज्ञिनः, 'सम्यग्ज्ञानं संज्ञा, सा येषामस्ति ते संज्ञिनः' इति व्युत्पत्तेः । ये त्वज्ञानिनस्तेऽसंज्ञिनः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org