________________
३०६
बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.११४७]जह हाउत्तिण्ण गओ, बहुअतरं रेणुयं छुभइ अंगे ।।
सुटु वि उज्जमाणो, तह अन्नाणी मलं चिणइ ।। - यथा गजः सरो-नद्यादौ मलापनयनार्थं स्नात्वोत्तीर्ण सन् बहुतरां रेणुं करेण गृहीत्वा स्वकीयेऽङ्गेक्षिपति, तथास्वाभाव्यात; तथा 'सुष्टुपि' अतिशयेनापि उद्यच्छमानः' उद्यमंकुर्वाणः अज्ञानीजीवः 'मलं' कर्मरजोलक्षणं चिनोति । एवं त्वमपि कर्मलनिर्घातनार्थं प्रव्रजितः परं श्रुताध्ययनमन्तरेण प्रवचनविरुद्धानि समाचरन् प्रत्युत भूयस्तरेण कर्मरजसाऽऽत्मानं गुण्डयिष्यसि ।। [भा.११४८]जं सिलिपई निदायति, तं लाएतिचलणहि भूमीए।
एवमसंजमपंके, चरणसई लाइ अमुणिंतो॥ वृ-तथा श्लीपदनाम्ना रोगेण यस्य पादौ शूनौ-शिलाव महाप्रमाणौ भवतः स एवंविधः श्लीपदी यथा क्षेत्रं 'निदायति' निद्दिणतीत्यर्थः, स च यदल्पमात्रं सस्यं निदायति तद् भूयस्तरं 'चलनाभ्यां पादाभ्यामाक्रम्य भूमौ लगयतिमर्दयति च । एळं श्रुतपाठंना “अमुणतो" अजानन् नाभ्यां पादाभ्यामाक्रम्य भूमौ लगयति मर्दयति च । एवं श्रुतपाठं विना “अमुणंतो" अजानन् "चरणसयं"तिचरणसस्यम् 'असंयमपङ्के' पृथिव्याधुपमर्दकर्दमे लगयति, लगयित्वाचसकलमपि मर्दयति । एवमाचार्यरुक्ते' शिष्य आतुर टान्तमाह[भा.११४९] भणइ जहा रोगत्तो, पुच्छति वेऑन संधियं पढइ ।
इय कम्मामयवेज्जे, पुच्छिय तुझे करिस्सामि। वृ-स शिष्यो भणति-भगवन् ! यथा रोगात्तःपुरुषो वैधमेव पृच्छति न पुनर्वैद्यकसंहिता पठति, एवमहमपि युष्मान् 'कर्मामयवैद्यान्' कर्मरोगचिकित्सकान् पृष्ट्वा सर्वामपि क्रियां करिष्यामि, न पुनः श्रुतं पठिष्यामीति ।। गुरुराह[भा.११५०]भण्णइ न सो सयं चिय, करेति किरियं अपुच्छिउँ रोगी।
नायव्यो अहिगारो, तुम पि नाउंतहा कुणसु॥ । वृ-भण्यते अनोत्तरम्-यद्यपि नासौ रोगी वैद्यमपृष्टवा स्वयमेव क्रियां करोति तथाऽपि तस्य 'ज्ञातव्ये' क्रियायाः परिज्ञानेऽधिकारोऽस्ति यथा स वैद्यो भूयो भूयः प्रष्टव्यो न भवति । एवं यद्यपि त्वमस्मान् पृष्ट्वा सर्वामपि क्रियां करिष्यसि तथापि सूत्रमधीत्य षट्कायरक्षणविधि जानीहि, ज्ञात्वा च तथा कुरु यथा बहुशः प्रष्टव्यं न भवति ।। शिष्यः प्रतिभणति
[मा.११५१] दूरे तस्स तिगिच्छी, आउरपुच्छा उ जुज्जए तेनं ।
- सारेहिंति सहीणा, गुरुमादि जतो नऽहिजामि ।।
वृ-'तस्य' आतुरस्य 'दूरे दूरवर्ती सः 'चिकित्सी' वैद्यः अत आतुरस्य क्रियायाअपरिज्ञाने वैद्यान्तिके पृच्छा युज्यते, ममपुनर्गुरव आदिशब्दाद् उपाध्यायादयः स्वाधीना एव, अतो ज्ञास्यन्ति ते भगवन्तः स्वयमेव मदीयं स्खलितम्, ज्ञात्वा च सम्यग् मां सारयिष्यन्ति, यत एवमत एवाहं 'नाधीये' न पठामीति ॥ सूरिराह[भा.११५२] आगाढकारमेहिं, गुरुमादी ते जया न होहिंति।
तइया कहं नु काहिसि, जहा व सो अंधलो थेरो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org