________________
३०५
उद्देशक ः १, मूलं-६, [भा. ११४२] मुत्ती०" इत्यादि । गुणतो यथा
नो दुष्कर्मप्रयासो न कुयुवति-सुत-स्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोऽशन-वसन-धन-स्थानचिन्ता न चैव ।
ज्ञानाप्तिर्लोकपूजा प्रशमसुखरसः प्रेत्य मोक्षाद्यवाप्ति, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यत्नं कुरुध्वम् ? ॥ इत्यादि।
यदा यतिधर्मभङ्गीकर्तुन शक्नोति तदा सम्यक्त्वमूलः श्राद्धधर्मकथयितव्यः, यदा तमपि न प्रतिपद्यते तदा सम्यग्दर्शनम्, तस्याप्यप्रतिपत्तौ मद्य-मांसविरति । एवं चानुपासकस्य पुरतो धर्मकथायां विधिः । उपासकस्य तु यथास्वरुचि धर्मकथां करोतु, न कश्चिद्दोषः ।।
गतं प्रव्रज्याद्वारम् । अथ शिक्षापदद्वारमाह[भा.११४३]पव्वइयस्स य सिक्खा, गयोहाय सिलीपती य दिलुतो।
तइयं च आउरम्मी, चउत्थगं अंधले थेरे।। वृ-प्रवजितस्य च सतोऽस्य शिक्षा दातव्या! सा च द्विधा-ग्रहणशिक्षा आसेवनशिक्षा च। तत्र ग्रहणशिक्षा सूत्राध्ययनरूपा, आसेवनाशिक्षा प्रत्युपेक्षणादिका । तत्र कोऽपि प्रव्रजितः सन् आसेवनाशिक्षां सम्यगम्यस्यति न पुनर्ग्रहणशिक्षाम् । तत्राचार्य स्नातेन गजेन श्लीपदिना च दृष्टान्तः क्रियते, तृतीयं चोदाहरणमातुरविषयं चतुर्थमन्धस्थविरविषयं कर्तव्यमिति गाथासमासार्थः।। अथ विस्तरार्थोऽभिधीयते-तत्रासौ गुरुभिरादिष्टः-सौम्य! गृहाणत्वमेनां ग्रहणशिक्षाम, अधीष्व विधिवद् यथाक्रममाऽऽचारादिश्रुतम् । स प्राह[भा.११४४] पव्वइओऽहं समणो, निक्खित्तपरिग्गहो निरारंभो।
___इति दिक्खियमेकमणो, धम्मधुराए दढो होमि ।। वृ-भदन्त ! परव्रजितोऽहं श्रमणः' तपस्वी निक्षिप्तपरिग्रहो निरारम्भश्च सात इत्यतः 'दीक्षिते' दीक्षायां मकारोऽलाक्षणिकः एकाग्रमना 'धर्मधुरायां' धर्मचिन्तायां ढः' निष्कम्पो भवामि । किञ्च[भा.११४५]समितीसु भावनासु य, गुत्ती-पडिलेह-विनयमाईसु।।
लोगविरुद्धेसु य बहुविहेसु लोगुत्तरेसुंच॥ [भा.११४६] जुत्त विरयस्स सययं, संजमजोगेसु उज्जयमइस्स।
किं मझंपढिएणं, भण्णइ सुण ता इमे नाए । वृ- ‘समितिषु' ईर्यादिषु 'भावनासु' द्वादशसु पञ्चविंशतिसङ्ख्याकासु वा 'गुप्तिषु' मनोगुप्तयादिषुप्रत्युपेक्षणायां प्रतीतायां विनये' अभ्युत्थानादिरूपे आदिशब्दाद् वैयावृत्यादिषु व्यापारेषु ‘युक्तस्य प्रयलवतः, तथा लोकविरुद्धेषु' जुगुप्सितकुलभिक्षाग्रहणादिषु 'बहुविधेषु' नानाप्रकारेषु लोकोत्तरविरुद्धेषु' नवनीत-चलितान्नग्रहणादिषुचशब्दाद् उभयविरुद्धेषुमद्यादिषु 'विरतस्य' प्रतिनिवृत्तस्य 'संयमयोगेषु च' आवश्यकव्यापारेषु उद्यतमतेः एवंविधस्य किं मम 'पठितेन' पाठेन कार्यम् ? न किञ्चिदिति भावः । भण्यते गुरुभिरत्रोत्तरम्-वत्स! यदर्थं भवान् प्रव्रजितः स एवार्थोन सेस्यतीति।तथा चात्र शृणुतावदम् 'ज्ञाते द्वेनिदर्शन ।। तेएव यथाक्रममाह[1820
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org