________________
३०२
बृहत्कल्प-छेदसूत्रम् - १-१/६
'कर्ममासेन' ऋतमासेनेत्यर्थः । ततः “अबाहिरियंसि कप्पइ निग्गंथाणं एवं मासं वत्थए" ति किमुक्तं भवति ? -त्रिंशदहोरात्रमानमेकं ऋतुमासं कल्पते वस्तुमिति ।। प्ररूपितं मासपदम् । अथ येषां मासकल्पेन विहारो भवति तानू नामग्राहं गृहीत्वा तद्विधिमभिधित्सुराह
[ भा. ११३१] जिन सुद्ध अहालंदे, गच्छे मासो तहेव अजाणं । एएसिं नाणत्तं वोच्छामि अहानुपुवीए ॥
वृ- जिनकल्पिकानां शुद्धपरिहारकाणां यथालन्दकल्पिकानां 'गच्छ्वासिनां' स्थविर - कल्पिकानामित्यर्थः । तथैव 'आर्याणां' साध्वीनां यथा येषां मासकल्पो भवति तथैतेषां सर्वेषामपि नानात्वं वक्ष्यामि 'यथानुपूर्व्या' यथोद्दिष्टपरिपाट्या ॥ तत्रप्रथमं जिनकल्पिकानाश्रित्याह[ भा. ११३२] पव्वज्जा सिक्खापयमत्यग्गहणं च अनियओ वासो । निष्पत्ती य विहारो, सामायारी ठिई चेव ।।
वृ- प्रथमं प्रव्रज्या वक्तव्या, कथमसौ जिनकल्पिकः प्रव्रजितः ? इति । ततः 'शिक्षापदं' ग्रहणा - SS सेवनाविषयम् । ततो ग्रहणशिक्षयाऽधीतसूत्रस्यार्थग्रहणम् । ततो नानादेशदर्शनं कुर्वतो यथा अनियतो वासो भवति । ततः शिष्याणां निष्पत्ति । तदनन्तरं विहारः । ततो जिनकल्पं प्रतिपन्नस्य सामाचारी । ततस्तस्यैव 'स्थिति' क्षेत्र कालादिकाऽभिधातव्येति गाथासमुदायार्थः ।। अवयवार्थं प्रतिद्वारमभिधित्सुः प्रथमतः प्रव्रज्याद्वारमाह
[भा. ११३३] सोच्चाऽभिसमेच्चावा, पव्वज्जा अभिसमागमो तत्थ । जाइस्सरणाईओ, सनिमित्तमनिमित्तओ वा वि ।।
वृ- 'श्रुत्वा' तीर्थकर - गणधरादीनां धर्मदेशनां निशम्य 'अभिसमेत्य वा' सह सन्मत्यादिना स्वयमेवावबुध्य प्रव्रज्या भवेत् । तत्राल्पवक्तव्यत्वात् परथममभिसमागम उच्यते-सो अभिसमागमो जातिस्मरणादिकः सनिमित्तकोऽनिमित्तको वा द्रष्टव्यः । तत्र यद् बाह्यं निमित्तमुद्दिश्य जातिस्मरणमुपजायते तत् सनिमित्तकम्, यथा वल्कलचीरिप्रभृतीनाम् । यत् पुनरेवमेव तदावारककर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकम्, यथा स्वयम्बुद्ध-कपिलादीनाम् । एतेन जातिस्मरणेन आदिग्रहणात् श्रावकस्य गुणप्रत्ययप्रभवेणावधिज्ञानेन अन्यतीर्थिकस्य वा विभङ्गज्ञानेन प्रव्रज्याप्रतिपत्ति सम्भवति ।। गतमभिसमेत्यद्वारम् । अथ श्रुत्वेति द्वारं विवरीषुराह
[भा. ११३४] सोचा उ होइ धम्मं, स केरिसो केन वा कहेयव्वो । के तस्स गुणा वृत्ता, दोसा अनुवायकहणाए ।
वृ-धर्ममाचार्यादीनामन्तिके श्रुत्वा प्रव्रज्या भवति । अत्र शिष्यः पृच्छति स धर्म कीदृशः ? केन वा कथयितव्यः ? के वा तस्योपायकथने गुणाः प्रोक्ताः ? के वा अनुपायकथने दोषाः ? इति । तत्र की शः ? केन वा कथयितव्यः ? इति प्रश्नो निर्वचनमाह
[भा. ११३५] संसारदुक्खमहणो, विबोहओ भवियपुंडरीयाणं । धम्मो जिनपन्नत्तो, पगप्पजइणा कहेयव्वो ।
वृ-संसार एव जन्म-जरा-मरणादिदुःखनिबन्धनत्वाद्दुःखं संसारस्य वा दुःखानि शारीरमानसिकलक्षणानि तस्य तेषां वा मधनः- विनाशकः, तथा भव्या एव विनयादिविमलगुणपरिमलयोगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि-श्वेतसोरुहाणि तेषां विशेषेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org