________________
उद्देशक ः १, मूलं-५, [भा. ११२८]
३०१ शत-भिषगनामानि षड्नक्षत्राणि पञ्चदशमुहूर्तभोगीनि, तिस्रोउत्तराः पुनर्वसू रोहिणी विशाखा चेति षट् पञ्चचत्वारिंशन्मुहूर्तभोगीनि, शेषाणि तु पञ्चदश नक्षत्राणि त्रिंशन्मुहूर्तानीति जातानि सर्वसङ्ख्यया मुहूर्तानामष्ट शतानि दशोत्तराणि; एतेषां च त्रिंशन्मुहूर्तेरहोरात्रमिति कृत्वा त्रिंशता भागो ह्रियते लब्धानि सप्तविंशतिरहोरात्राणि, अभिजिद्भोगश्चैकविंशति सप्तषष्टा भागा इति तैरभ्यधिकानि सप्तविंशतिरहोरात्राणि सकलनक्षत्रमण्डलोपभोगकालो नक्षत्रमास उच्यते ॥ [भा.११२९] अउनत्तीसं चंदो, बिसट्ठिभागाय हुंति बत्तीसा।
कम्मो तीसइदिवसो, तीसा अद्धं च आइम्रो ।। कृ-चन्द्रे भवश्चान्द्रः कृष्णपक्षप्रतिपद आरभ्ययावत्पौर्णमासीपरिसमाप्तिस्तावत्कालमानः; सचएकोनविंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागाअहोरात्रस्य कर्ममासःऋतुमास इत्येकोऽर्थः, सत्रिंशदिवसप्रमाणः३।आदित्यमासस्त्रशदहोरात्राणि रात्रिन्दिवस्यचार्द्धम्, दक्षिणायनस्योत्तरायणस्य वा षष्ठभागमान इत्यर्थः ४॥ [भा.११३०]अभिवड्डि इकतीसा, चउवीसं भागसयं च तिगहीणं ।
भावे मूलाइजुओ, पगयं पुन कम्ममासेणं॥ वृ-अभिवद्धितोनाममुख्यतः त्रयोदशचन्द्रमासप्रमाणः संवत्सरः, परंतद्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचाराद् अभिवर्द्धितः, स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागीकृतस्य चाहोरात्रस्य त्रिकहीनं चतुर्विंशं शतंभागानां भवति, एकविंशशतमिति भावः५। एतेषां चानयनाय इयं करणगाथा
जुगमासेहि उ भइए, जुगम्म लद्धं हविज नायव्वं ।
मासाणं पंचण्ह वि, एयं राइंदियपमाणं ।। इह सूर्यस्य दक्षिणमुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकम् । वे अयने वर्षमिति कृत्वावर्षेषट्पष्टयधिकानि त्रीणिशतानि भवन्ति पञ्चसंवत्सरायुगमितिकृत्वा तानिपञ्चभिर्गुण्यन्ते जातान्यष्टादश शतानि त्रिंशानि दिवसानाम् । एतेषां नक्षत्रमासदिवसानयनाय सप्तषष्टियुगे नक्षत्रमासाइति सप्तषष्टया मागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः १ तथा चन्द्रमासदिवसानयनाय द्वाषष्टियुगे चन्द्रमासा इति द्वाषष्टया तस्यैव युगदिनराशेागो ह्रियते, लब्धान्येकोनत्रिंशदहोरात्राणि द्वात्रिंशच द्वाषष्टिभागाः २ । एवं युगदिवसानामेवैकषष्टियुगे कर्ममासा इत्येकषष्टया भागे हृते लब्धानि कर्ममासस्य त्रिंशद्दिनानि ३ । तथा युगे षष्टि सूर्यमासा इति षष्ट्या युगदिनानां भागे हृते लब्धाः सूर्यमासदिवसास्त्रिंशदहोरात्रस्यार्द्ध च४।तथा युगदिवसा एव अभिवर्द्धितमासदिवसानयनाय त्रयोदशगुणाः क्रियन्ते जतानि त्रयोविंशतिसहस्राणि सप्त शतानि नवत्यधिकानि, एषां चतुश्चत्वारिंशः सप्तभिशतैर्भागो ह्रियते लब्धाएकत्रिंशद्दिवसाः,शेषाण्यवतिष्ठन्तेषड्विशत्यधिकानि सप्तशतानि चतुश्चत्वारिंशसप्तशतभागानाम्, तत उभयेषामप्यङ्कानां षड्भिरपवर्त्तना क्रियते जातमेकविंशं शतं चतुर्विंशत्युत्तरशतभागानामिति ५॥
उक्ताः पञ्चापि कालमासाः । भावमासो नोआगमतः 'मूलादियुतः' मूल-कन्दस्कन्धादिरूपतया माषप्रायोग्याणि कर्माणि वेदयन् माषजीवोऽवगन्तव्यः प्रकृतं पुनरत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org