SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् - १-१/६ जलदुर्गादीनि पर्वता एव दुर्गाणि वा, एतानि नगरादिकं परिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते ।। कालपरिक्षेपमाह ३०० [भा. ११२४] वासारत्ते अइपाणियं ति गिम्हे अपाणियं नच्चा । कालेन परिक्खित्तं, तेन तमन्त्रे परिहरंति ॥ वृ- वर्षारात्रेऽतिपानीयमिति कृत्वा 'ग्रीष्मे' उष्णकाले अपानीयमिति कृत्वा रोद्धुं न शक्यत इति ज्ञात्वा तेन कारणेन तद् नगरादिकम् 'अन्ये' परराष्ट्रराजानः परिहरन्ति तत् कालपरिक्षिप्तम्।। भावपरिक्षेपमाह [भा. ११२५] नच्चा नरवइणो सत्त-सार- बुद्धी - परक्कमविसेसे । भावेन परिक्खित्तं, तेन तमन्ने परिहरति ॥ वृ- सत्त्वं- धैर्यम्; सारो द्विधा बाह्य आभ्यन्तरश्च, बाह्यो बल-वाहनादि, आभ्यन्तरो रत्नसुवर्णादि; बुद्धिरीत्पत्तिक्यादिभेदाच्चतुर्विधा यथा अभयकुमारस्य पराक्रमः - औरसबलात्मकः, एतान् सत्त्व-सार-बुद्धि-पराक्रमविशेषान् विवक्षितनरपतेः सम्बन्धिनो ज्ञात्वा 'यद्यनेन सार्द्ध विग्रहमारप्स्यामहे तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दाः' इति परिभाव्य तदीयं नगरं यद् 'अन्ये' राजानः परिहरन्ति तत् तदीयेन सत्त्व-सारादिना भावेन परिक्षिप्तं प्रतिपत्तव्यम्।। व्याख्यातं परिक्षेपपदम् । अत्र द्रव्यपरिक्षेपेण प्रकृतम् । अथ मासपदनिक्षेपमाह [ भा. ११२६] नामं ठवणा दविए, खित्ते काले तहेव भावे य । मासस्स परूवणया, पगयं पुण कालमासेणं ॥ वृ नाममासः स्थापनामासोद्रव्यमासः क्षेत्रमासः कालमासो भावमासश्चेति षड्विधा मासस्य प्ररूपणा कर्त्तव्या । प्रकृतं पुनरत्र सूत्रे कालमासेन || तत्र नाम-स्थापने क्षुण्णत्वाद् व्युदस्य द्रव्यमासमाह [भा. ११२७] दव्वे भवितो निव्वत्तिओ उ खेत्तं तु जम्मि वण्णणया । कालो जहि वणिज, नक्खत्तादी व पंचविहो । वृ- द्रव्यमासः “भविउ "त्ति माषत्वेन य उत्पत्स्यते स चैकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति त्रिधा, एष त्रिविधोऽपि प्राकृतशैल्या द्रव्यमासो भण्यते, एवमुत्तरत्रापि । अथवा द्रव्यमासो दविधा मूलोत्तरगुणनिर्वर्त्तितभेदात् । तत्र यो जीवविप्रमुक्तो माषः स मूलगुणनिर्वर्तितः, यस्तु चित्रकर्मादी माषस्तम्ब आलिखितः स उत्तरगुणनिर्वर्तितः । क्षेत्रमासस्तु यस्मिन् क्षेत्रे मासकल्पस्य वर्णना क्रियते माषो वा वाप्यते । कालमासः पुनर्यस्मिन् काले माषो वाप्यते मासकल्पो वा वप्रये । अथवा कालमासः श्रावणादि । यद्वा कालमासो नक्षत्रादिकः पञ्चविधः । तद्यथा - नक्षत्रमासश्चन्द्रमासः ऋतुमासः आदित्यमासः अभिवर्द्धितमासः ।। अमीषामेव परिमाणमाह [ भा. ११२८ ] नक्खत्तो खलु मासो, सत्तावीसं हवंतऽहोरत्ता । भागाय एकवीसं, सत्तद्विकएण छेएणं ।। वृ- नक्षत्रेषु भवो नाक्षत्रः, स खलु मासः सप्तविंशतिरहोरात्राणि सप्तषष्टीकृतेन च्छेदेन च्छिन्नस्याहोरात्रस्यैकविंशति सप्तषष्टा भागाः । तथाहि चन्द्रस्य भरण्यार्द्राऽश्लेषा-स्वाति ज्येष्ठा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy