________________
उद्देशकः १, मूलं-५, [भा. ११३५]
३०३ मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः-सम्यग्दर्शनादिविकाशकारी, ईशो जिनप्रज्ञप्तोधर्म 'प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणासाधुनाकथयितव्यः । सहि संविग्नगीतार्थतयोत्सर्गाऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणयाऽऽत्मानं परं वा दीर्घभवभ्रमणभाजनमातनोतीति ।।परःप्रा-किमेवंविधोऽपिभागवतोधर्मउपदिश्यमानः केषाञ्चिद् बोधं न जनयति येनैवमभिधीयते "भव्यपुण्डरीकाणां विबोधकः" ? इति, अत्रोच्यते[भा.११३६] जह सूरस्स पभावं, दटुं वरकमलपोंडरीयाई ।
बुझंति उदयकाले, तत्थ उ कुमुदा न बुझंति ॥ वृ- यथा सूर्यस्य 'प्रभावं प्रभापटलरूपं दृष्ट्वा सरसि स्थितानि वरकमलपुण्डरीकाणि 'उदयकाले' प्रभाते बुध्यन्ते । तत्रैव च सरसि कुमुदान्यपि सन्ति परंतानि न बुध्यन्ते । [भा.११३७] एवं भवसिद्धीया, जिणवरसूरस्सुतिप्पभावेणं।
बुझंति भवियकमला, अभवियकुमुदा न बुज्झंति ।। वृ-'एवम्' अनेनैव दृष्टान्तेन जिनवरसूर्यस्यया श्रुति-आगमःप्रभापटलकल्पस्तत्प्रभावेन भव्यकमलानि 'बुध्यन्ते' सम्यक्त्वादिविकाशमासादयन्ति । तानि च- "भव्वा वि ते अनंता, जे मुत्तिसुहंन पावंति।" इति वचनादसम्भावनीयसिद्धिगमनान्यपि भवेयुरित्यत्तध्यवच्छेदार्थमाहभवा-भाविनी सिद्धिर्येषां तानि भवसिद्धिकानि । यस्मिंश्च जीवलोकसरसि भगवतः प्रभावेन भव्यकमलानि बोधमश्नुवते तस्मिन् अभव्यकुमुदान्यपि कालसौकरिकप्रमृतीनि सन्ति परंतानि न प्रतिबुध्यन्ते, तथास्वाभाव्यात् । यदवादि वादिमुख्येन
सद्धर्मबीजवपनानधकौशल्यस्य, यल्लोकबान्धव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः
-अत्र पर ः प्राह[भा.११३८] पुन्वंत्ति होइ कहओ, पच्छा धम्मो उ उक्कमो किन्नु ।
तेन विपुलं धम्मो, सुओ उ तम्हा कमो एसो।। वृ-पूर्वं तावत् 'कथकः' धर्मोपदेष्टा भवति, पश्चात् तदुपदेशं श्रुत्वा धर्म उत्पद्यते, अतः किमेवं 'स कीशः' इति प्रथमं धर्मस्वरूपमुद्दिश्य 'केन वा कथयितव्यः' इति कथकस्वरूपं पश्चादुद्दिशद्भिरुक्रमः क्रियते? । गुरुराह-तेनापि कथकेन पूर्वं गुरूणां समीपे धर्म श्रुत एव तस्मात् क्रम एषः नोक्रम इति ।। अयं च धर्म उपायेनैव कथयितव्यो नानुपायेन । आह के दोषान अनुपायकथने ? उच्यते[भा.११३९] जइधम्मं अकहेत्ता, अनुदिविदं सम्म मंसविरइं वा।
अनुवासए कहिते, चउजमला कालगा चउरो। वृ- यः खलु मिथ्याष्टिरनुपासकस्तप्रथमतया धर्मश्रवणार्थमुपतिष्ठते तस्य यतिधर्मः कथयितव्यः । यदि यतिधर्ममकथयित्वा श्रावकसम्बन्धिनमणुधर्म कथयति तदा चत्वारो गुरवः तपसा कालन च द्वाभ्यामपि गुरुकाः । यदा यतिधर्मं प्रतिपत्तुंनोत्सहते तदा मूलोत्तरगुणभेदाद् द्विविधः श्राद्धधर्म कथनीयः, सम्यक्त्वमूलानि द्वादश व्रतानीत्यर्थः । यदि शाद्धधर्मकथयित्वा सम्यग्दर्शनमात्रं कथयति तदाऽपि चत्वारो गुरवः तपसा गुरवः काले लघवः । यदा श्राद्धधर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org