________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
घृ- यदि 'कृपूदीनि ' कूप- वृक्ष- तदुभयानि 'पार्श्वे' एकस्यां दिशि भवन्ति ततः खण्डमल्लकाकारस्त्रिविधोऽपि ग्रामो यथाक्रमं मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपः तामेवैकां दिशं मुक्त्वा शेषासु दिक्षु रज्ञ्जवो निर्गत्य तिर्यगू वृतिं प्रप्योपरि हर्म्यतलान्यासाद्य पटहच्छेदेनोपरमन्ते, एष उत्तानकखण्डमल्लकाकारः । अवाङ्मुखखण्डमल्लकाकारोऽप्येवमेव, नवरं यस्यैकस्यां दिशि देवकुलमुच्चैस्तरो व वृक्षः । सम्पुटकखण्डमल्लकाकारस्तु यस्यैकस्यां दिशि कूपस्तदुपरिष्टाच वृक्षः, शेषं प्राग्वत् । "पुव्वावर " इत्यादि, पूर्वस्यामपरस्यां च दिशि समश्रेणिव्यवस्थितैर्वृक्षैर्मित्तिसंस्थितो ग्रामो भवेत् ॥
|
[भा. ११०७] पासट्ठिए पडाली, चलभी चउकोण ईसि दीहा उ । चउकोणेसु जइ दुमा, हवंति अक्खाडतो तम्हा ।।
वृ-पडालिकासंस्थितोऽप्येवमेव, नवरमेकस्मिन् पार्श्वे वृक्षयुगलं समश्रेण्या व्यवस्थितम् । तथा यस्य ग्रामस्य चतुर्ष्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः स वलभीसंस्थितः । ‘अक्षवाटः ' मल्लानां युद्धाभ्यासस्थानम्, तद् यथा समचतुरस्र भवति एवं यदि ग्रामस्यापि चतुर्षु कोणेषु द्रुमा भवन्ति ततोऽसौ चतुर्विदिग्वर्त्तिभिर्वृक्षैः समचतुरस्रतया परिच्छिद्यमानत्वादक्षपाटकसंस्थितः। [भा. ११०८] वट्टागारठिएहिं रुयगो पुण वेढिओ तरुवरेहिं । तिक्कोण कासवओ, छुरघरगं कासवं बिंती ॥
वृ- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलय शैलवद् वृत्ताकारव्यवस्थितैवृक्षैर्वेष्टितस्तदा रुचकसंस्थितः । यस्तु ग्राम एव त्रिकोणतया निविष्टो वृक्षा वा त्रयो यस्य बहित्र्यनं स्थिताः, एकतो द्वान्यतस्त्वेक इत्यर्थः, एष उभयथाऽपि काश्यपसंस्थितः । काश्यपं पुनर्नापितस्य सम्बन्धि क्षुरगृहं ब्रुवते, तद् यता त्र्यस्रं भवत्येवमयमपि ग्राम इति ॥ भावितानि सर्वाण्यपि संस्थानानि । अथ को नयः किं संस्थानमिच्छति ? इति भाव्यते
२९६
[भा. ११०९] पढमेत्य पडहछेदं, आ कासव कडग-कोट्टिमं तइओ । नाणि आहिपतिं वा, सद्दनया तिनि इच्छंति ॥
प्रथमोऽत्र नैगमनयः, स पटहच्छेदलक्षणं संस्थानं प्रतिपद्यते । सङ्गहोऽप्येवमेव मन्यत इत्यत्रैवान्तर्भाव्यते । व्यवहारस्तु भित्तिसंस्थानादारभ्य आ काश्यपसंस्थानं मन्यते । 'तृतीयः' ऋजुसूत्रः, सः कटकानां तृणादिमयानां कुट्टिमानां वा पाषाणादिब्धभूमिकानां यत् संस्थानं तद् मन्यते । 'त्रयस्तु' शब्दनया ज्ञानिनमधिपतिं वा ग्रामसंस्थानस्वामित्वेनेच्छन्ति ॥
एनामेव नियुक्तिगाथां व्यक्तीकुर्वन्नाह
[ भा. १११०] संगहियमसंगहिओ, संगहिओ तिविह मल्लयं नियमा । भित्तादी जा कासवी, असंगहो वेति संठाणं ॥
वृ- नैगमो द्विधा-सामहिकोऽसाङ्ग्राहिकश्च । तद्विपरीतोऽसाङ्ग्राहिकः । तत्र यः साङ्ग्राहिकः स नियमात् 'त्रिविधम्' उत्तानका ऽवाङ्मुख- सम्पुटकमेदभिन्नं सम्पूर्ण वा कण्डं वा मल्लकं तस्य यत् पटहच्छेदलक्षणं संस्थानं तद् मन्यते । असामहिकस्तु भित्तिसंस्थानमादौ कृत्वा यावत् काश्यपसंस्थानम् एतानि सर्वाण्यपि 'ब्रूते' प्रतिपद्यत इत्यर्थः । सङ्ग्रह - व्यवहारौ तु सामहिका - साङ्ग्रहिकयोरेव नैगमयोर्यथासङ्ख्यमन्तर्भावनीयाविति न पृथक् प्रपञ्चयेते इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org