________________
उद्देशक ः १. मूलं-५, [भा. ११०१]
२९५ 'उत्तिष्ठते' उद्वसीभवति 'वसति वा' भूयोऽप्यवस्थानं करोति स ग्रामस्याधिपतिमि इति शब्दमुद्दोढुमर्हति, येतुतत्रतदनुवर्तिनःशेषास्तेऽशेषाअप्युपसर्जनीभूतत्वान ग्रामसंज्ञां लभन्त इति भावः ।। चिन्तितं नयमार्गणया ग्रामस्वरूपम् ।
अथ ग्रामस्यैव नयैः संस्थानचिन्तां चिकीर्षुराह[भा.११०२]तस्सेव उ गामस्सा, को कंसंठाणमिच्छति नओ उ।
तत्थ इमे संठाणा, हवंतिखलु मल्लगादीया।। वृ-तस्यैव ग्रामस्य संस्थानं को नयः किमिच्छति? इति चिन्त्यते । तत्र तावद् इमानि मल्लकादीनि ग्रामस्य संस्थानको नयः किमिच्छति? इति चिन्त्यते।तत्रतावद् इमानिमल्लकादीनि ग्रामस्य संस्थानानि भवन्ति ।। तान्येवाह[भा.११०३] उत्तानग ओमंथिय, संपुडए खंडमल्लए तिविहे ।
भित्तीप-डालि वलभी, अक्खाडग रुयग कासवए।। वृ. अस्ति ग्राम उत्तानकमल्लकाकारः, अस्ति ग्रामोऽवाङ्मुखमल्लकाकारः, एवं स्मपुटकमल्लकाकारः । खण्डमल्लकमपि त्रिविधं वाच्यम् । तद्यथा-उत्तानकखण्डमल्लकसंस्थितः अवाड्मुखखण्डमल्लकसंस्थितः सम्पुटकखण्डमल्लकसंस्थितश्च । तथा भित्तिसंस्थितः पडालिकासंस्थितः वलभीसंस्थितःअक्षपाटकसंस्थितः रुचकसंस्थितः काश्यपसंस्थितश्चेति।।अथैषामेव संस्थानानां यथाक्रमं व्याख्यानमाह[भा.११०४] मज्झे गामस्सऽगडो, बुद्धिच्छेदा ततो उ रज्जूओ।
निक्खम्म मूलपादे, गिण्हतीओ वइ पत्ता ॥ वृ-इह यस्य ग्रामस्य मध्यभागे 'अगडः कूपस्तस्यबुध्या पूर्वादिषुदिक्षुच्छेदः परिकल्प्यते, ततश्च कूपस्याधस्तनतलाद् बुद्धिच्छेदेन रज्जवो दिक्षु विदिक्षु च निष्काम्य गृहाणां मूलपादान् उपरि कृत्वा गृह्णत्यस्तिर्यक् तावद् विस्तार्यन्ते यावद् ग्रामपर्यन्तवर्तिनी वृति प्राप्ता भवन्ति, तत उपर्यभिमुखीभूयतावद् गतायावद् उच्छ्रयेण हर्म्यतलानांसमीभूताः तत्रच पटहच्छेदेनोपरताः, एष ईश उत्तानमल्लकसंस्थितो ग्राम उच्यते, ऊर्ध्वाभिमुखस्य शरावस्यैवमाकारत्वात् ॥ [भा.११०५]ओमंथिए वि एवं, देउल रुक्खो व जस्स मज्झम्मि।
कूवस्सुवरि रुक्खो, अह संपुडमल्लओ नाम ।। वृ-अवाङ्मुखमल्लकाकारेऽप्येवमेव वाच्यम्, नवरं यस्य ग्रामस्य मध्ये देवकुलं वृक्षो वा उच्चैस्तरस्तस्य देवकुलादेः शिखराद् रज्जवोऽवतार्य तिर्यक् तावद् नीयन्ते यावद् वृति प्राप्ताः, ततोऽधोमुखीभूयगृहाणांमूलपादान्गृहीत्वा पटहच्छेदेनोपरताः, एषोऽवाङ्मुखमल्लकसंस्थितः। तथा यस्य ग्रामस्य मध्यभागे कूपः, तस्य चोपर्युचतरो वृक्षः, ततः कूपस्याधस्तलाद् रज्जवो निर्गत्य मूलपादानधोऽधस्तावद् गता यावद् वृतिप्राप्ताः, ततऊर्वाभिमुखीभूय गत्वा हयंतलानां समश्रेणीभूताः, वृक्षशिखरादप्यवतीर्य रज्जवस्तथैव तिर्यग् वृतिं प्राप्नुवन्ति, ततोऽधोमुखीभूय कूपसम्बन्धिनीनां रज्जूनामग्रभागैः समं सङ्टन्ते, अथैष सम्पुटकमल्लकाकारो नाम ग्रामः ।। [भा.११०६] जइ कूवाई पासम्मि होंति तो खंडमल्लओ होइ।
पुव्वावररुक्खेहिं, समसेढीहिं भवे भित्ती ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org