________________
उद्देशकः १, मूलं-५, [मा. ११११]
२९७ [मा.११११]निम्मा घरवइथूभिय, तइओ दुहणा वि जाव पावंति ।
नाणिस्साहिपइस्स व, जं संठाणं तु सदस्स ॥ वृ. 'तृतीयः' सूत्रक्रमप्रामाण्येन ऋजुसूत्रः, सः “निम्म"त्ति मूलादानां “घर वइ"त्ति गृहाणां वृतेर्वा स्तूपिकानां वा उपलक्षणत्वात् कटकानां कुट्टिमानां वा यत् संस्थानं माले वा भूमिकादाढर्यसम्पादनार्थमकुट्यमाने 'द्रघणाः' मुद्गरा ऊर्ध्वमुक्षिप्यमाणा यावद् आकाशतलं प्राप्नुवन्ति तावन्तर्यादीकृत्य यत्संस्थानमेतत् सर्वमपिप्रत्येकं ऋजुसूत्रोमन्यते । तथा 'ज्ञानिनः' ग्रामपदार्थज्ञस्य ग्रामाधिपतेवी यत् संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति ॥ गतं द्रव्यग्रामद्वारम् । अथ भूतादिग्रामभेदान् भावयति[भा.१११२]चउदसविहो पुन भवे, भूतग्गामो तिहा उ आतोजो ।
सोतादिंदियगामो, तिविहा पुरिसा पिउग्गामो॥ वृ-भूताः-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः, स चतुर्दशविधः । तथा चाहएगिदिय सुहुमियरा, सन्नियर पणिंदिया य सबि-ति-चऊ।
पज्जत्ताऽपज्जत्ता, भेएणं चउदस ग्गामा॥ एकेन्द्रिया द्विविधाः-सूक्ष्मा बादराश्च ।सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्माः । बादरनामकर्मोदयवर्तिनो बादराः। द्वीन्द्रियाः-कृम्यादयः । त्रीन्द्रियाः-कुन्थु-पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः। पञ्चेन्द्रिया द्विविधाः-संज्ञिनोऽसंज्ञिनश्च । संज्ञिनः-गर्भजतिर्यङ्-मनुष्या देव-नारकाश्च। असंज्ञिनः सम्मूर्छिमास्तिर्यङ्-मनुष्याः । एते च स्वयोग्यपर्याप्तिभिः पर्याप्ता वा स्युरपर्याप्ता । पर्याप्ति म शक्ति, सा चाहार-शरीरेन्द्रिय-प्राणापान-भाषा-मनःपर्याप्तिभेदात् षोढा । तत्र तया शक्त्याकरणभूतया भुक्तमाहारंखल-रसरूपतया करोतिसा आहारपर्याप्ति।ययातुरसीभूतमाहारं धातुरूपतया परिणमयति सा शरीरपर्याप्ति । यया धातुरूपतया परिणमितादाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा इन्द्रियपर्याप्तिः । यया पुनरुच्छ्वास-भाषा-मनःप्रायोग्याणि दलिकान्यादाय यथाक्रममुच्छ्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणमय्याऽऽलम्ब्य च मुञ्चति सा क्रमेण प्राणापानपर्याप्तिाषापर्याप्तिर्मनः पर्याप्तिाएताश्च यथाक्रममेकेन्द्रियाणांचतस्रो, द्वीन्द्रियादीनां सम्मूर्छिमतिर्यड्-मनुष्यान्तानां पञ्च, संज्ञिपदचेन्द्रियाणांच षड् भवन्ति । एवं च पूर्वोक्ताः सप्तापि भेदाः पर्याप्तापर्याप्तभेदाद् द्विधा भिद्यमानाश्चतुर्दश भवन्ति । एष चतुर्दशविधो भूतग्रामः ।।
आतोद्यग्रामस्तु त्रिधा-षड्जग्रामो मध्यमग्रामो गन्धारग्रामश्च । एतेषां च स्वरूपमनुयोगद्वारशास्त्राद् अवसेयम् । इन्द्रियग्रामः श्रोत्रादीनामिन्द्रियाणां समुदायः, सच पञ्चेन्द्रियाणां सम्पूर्ण, चतुस्त्रिद्वयेकेन्द्रियाणां यथाक्रममेकद्वित्रिचतुःसङ्घयैरिन्द्रियैन्यूँन इति।पितृग्रामस्तुत्रिविधाः पुरुषाः । तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्चेति ॥ [भा.१११३]तिरिया-ऽमर-नरइत्थी, माउग्गामं पि तिविहमिछति।
नाणाइतिगं भावे, जओ व तेसिं समुप्पत्ती॥ वृ-तिर्यग्योनिकस्त्रियोऽमराः-देवास्तेषां िस्त्रयो नराः-मनुष्यास्तेिषां च स्त्रय इति मातृग्राममपि त्रिविधमिच्छन्ति पूर्वसूरयः। आह किमेवंस्त्रि-पुरुषाणांमातृपितृप्रामसंज्ञा विधीयते? .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org