________________
२८८
बृहत्कल्प-छेदसूत्रम् -१-१/५ कथम्? इत्याह-वृद्धानां तरुणीनांचमध्ये यदि निष्प्रत्यपायंततस्तरुण्यो गच्छन्ति वृद्धा आसते। तथा जुङ्गितानामजुङ्गितानांच जुङ्गितास्तिष्ठन्ति अजुङ्गिता द्विविधाः-जातिजुङ्गिताः शरीरजुङ्गित्ताश्च। तत्र जातिजुङ्गिता गच्छन्ति शरीरजुङ्गिताः पादादिविकलास्तत्रैवाऽऽसते । तरुण्योऽपि यदि सप्रत्यपायं मार्गादौ ततस्तत्रैवाऽऽसते वृद्धास्तु प्रेषयेत् ।। [भा.१०७४] एवं तेसि ठियाणं, पत्तेगंवा वि अहव मिस्साणं।
ओमम्मि असंथरणे, इमा उजयणाजहिं पगयं ।। वृ- ‘एवम्' अनन्तरोक्तप्रकारेण 'तेषाम्' आचार्यादीनां तत्र क्षेत्रे 'प्रत्येकं वा' एकतरवर्गरूपेण 'मिश्राणां वा' द्विवर्ग-त्रिवर्ग-चतुर्वर्गरूपतया स्थितानां अवमकाले असंस्तरणे इयं यतना यस्यामिदं प्रलम्बसूत्रं प्रकृतम् । तामेवाह[भा.१०७५] ओयण-मीसे-निम्मीसुवक्खडे पक्क-आम-पत्तेगे।
साधारण सग्गामे, परगामे भावओ विभए ।। वृ-ओदनं १ मिश्रोपस्कृतं २ निर्मिश्रोपस्कृतं ३ पक्कं ४ आमं ५ प्रत्येकं ६साधारणं ७, एतानि सप्तापि यथाक्रमं प्रथमं स्वग्रामे ततः परग्रामे ग्रहीतव्यानि | भावतोऽपि यान्यभिन्नानि तान्यपि यतनापरिपाटिप्राप्तानि 'भजेत्' सेवेत गृह्णीयादित्यर्थः इति द्वारगाथासमासार्थः॥
अथ प्रतिद्वारं विस्तरार्थमभिधित्सुरोदनद्वारमाह[भा.१०७६] बत्तीसाईजा एक घास खवणं वन विय से हानी।
आवासएसु अच्छउ, जा छम्मासे न य पलंबे ।। वृ-ओदनस्य द्वात्रिंशत् कवलाः पुरुषस्य प्रमाणप्राप्त आहारः । यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु, यदि 'से' तस्य साधोः 'आवश्यकेषु अवश्यकृत्ययोगेषु हानि 'नापि' नैव भवति न प्रलम्बानि गृह्णातु । एवं द्वाभ्यां कवलाभ्यां न्यूना द्वात्रिंशत् कवला लभ्यन्ते तैस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते । एवमेकैकं कवलं परिहापयता तावद् वक्तव्यं यावयधेकः 'ग्रासः कवलः प्राप्यतेततस्तेनैवास्ताम्, यदितस्यावश्यकयोगान परिहीयन्तेमा च प्रलम्बानि गृह्णातु । अथैकोऽपि कवलो न प्राप्यते तत एक दिवसं 'क्षपणम्' उपवासं कृत्वा आस्ताम्, द्वितीये दिवसेद्वात्रिंशत्कवलैः पारयतु।यदितावन्तोन लभ्यन्तेतत एकैककवलपरिहाण्या तावद् वक्तव्यं यावद् यद्येकोऽपि कवलो न लब्धस्ततः षष्ठं कृत्वा समाधिसौदमध्यास्ताम्, षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्ताम्।अथ न लभ्यतेततःपूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते ततोऽष्टमं कृत्वा तिष्ठतु मा च प्रलम्बान्याददीत । एवमनयैव दिशा दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावद् नेतव्यं यावत् षण्मासक्षपणम् । अथ षण्मासक्षपणे धर्मावश्यकयोगाः परिहीयन्ते ततएकदिनन्यूनषण्मासक्षपणं करोतु।तदपि न शक्नोतिनिर्वोर्दु तत एकैकं क्षपणं परिहापयता तावद् वक्तव्यं यावदेकमपि क्षपणं कर्तुन शक्नोति ।।
ततः किं करोति? इत्याह[भा.१०७७] जावइयं वा लब्भइ, सग्गामे सुद्ध सेस परगामे।
मीसं च उवक्खडियं, सुद्धज्झवपूरगं गेण्हे ।। वृ-वाशब्दः पातनायाम्, साचकृतैवेति यावत् शुद्धोदनं स्वग्रामे लभ्यते यदि तावतान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org