________________
२८७
उद्देशक ः १, मूलं-५, [भा. १०७१]
वृ-एवमेवैकेकस्मिन् पक्षे षोडशिका भजना' भङ्गरचना कर्तव्या । यस्तदुभयरूपो गणो नभवति किन्तु केवल एव संयतपक्षः संयतीपक्षो वा स एकैकपक्षोऽभिधीयते । तत्र संयतानां संयतैः सह प्रथमा षोडशभङ्गी, सा च सप्रपञ्चं भाविता । अथ संयतीभिः परिगृहीते क्षेत्रे अपराः संयत्यः समागच्छन्ति तत्रापि प्रवर्तिनी-गणावच्छेदिन्यभिषेका-भिक्षुणीभिः पूर्वस्थिताभिः सह प्रत्येकमागन्तुकप्रवर्तिनी-गणावच्छेदिन्यभिषेका-भिक्षुणीरूपाणां चतुर्णां पदानां चारणिकां कुर्वाणैरेवमव षोडश भङ्गा रचयितव्याः, प्रायश्चित्तं चादेशद्वयेनापि तपः-कालविशेषितं तथैव वक्तव्यम् । एषा द्वितीयाषोडशभङ्गी । एवं संयतानां चतुर्विधानांपूर्वस्थितानां संयतैश्चतुर्विधैरेवागच्छद्भिरेवमेव तुरीया षोडशभङ्गी । सर्वसङ्ख्यया जाता भङ्गानांचतुःषष्टिः । एतेच केवलसंयतसंयतीपक्षचारणिकयालब्धाः अथोभयपक्षमधिकृत्याह-"उभयम्मिविनायव"त्ति उभयशब्देनोभयगणाधिपतिपरिगृह्यते, तत्राप्येवमेव भङ्गरचना ज्ञातव्या । तथाहि-चतुर्विधोभयगणाधिपतिभिः परिगृहीते क्षेत्रे चतुर्विधैरेवागन्तुकसंवैरागच्छिभ पूर्वोक्तनीत्यैव षोडश भङ्गाः।
__तथा तैरेव परिगृहीतेप्रवर्त्तिन्यादिभेदात् चतुर्विधाः संयत्यो यद्यागच्छेयुस्तदाऽपिषोडश मङ्गाः, चतुर्विधेषु तदुभयगणाधिपतिषु पूर्वस्थितेषु चतुर्विधानामेवोभयगणाधिपतीनामागमनेऽप्येवमपिषोडशभङ्गाः, एवं चतुर्विधसंयतीषु चतुर्विधानामेवोभयगणाधिपतीनामागमने षोडशभङ्गाः। एवमेताः पञ्चषोडशभङ्ग्यः सञ्जाताः, पञ्चभिश्च षोडशभङ्गीभिलब्धा भङ्गानामशीति। एषाचोभयगणविषया भङ्गकानामशीतिपूर्वोक्तयैकैकपक्षविषयया भङ्गकचतुःषष्टया सह मील्यते जातं चतुश्चत्वारिंशंशतं भङ्गानाम् । प्रायश्चित्तं च सर्वत्र प्राग्वद्रष्टव्यम् । “पेल्लमदिंते यजं पावे" त्तिएतत्पदं सर्वभङ्गानुपाति प्रतिपत्तव्यम् । अपूर्वमाणे क्षेत्रे आगन्तुका यदि बलात्प्रेर्य तिष्ठन्ति ततो वास्तव्या निर्गच्छन्तो अवमौदर्यसमुत्थामात्म-संयमविराधनां यत् प्राप्नुवन्ति तन्निप्पन्नं प्रायश्चित्तमागन्तुकानाम् । अथ वास्तव्याः पूर्यमाणे क्षेत्रे आगन्तुकानां स्थातुं न ददति ततो यद् आगन्तुका बहिपर्यटन्तो भक्तादिकलमभाना विराधनांप्राप्नुवन्तितनिष्पन्नवास्तव्यानामापद्यते।। आह यद्येवंकुर्वातामेतावत् प्रायश्चित्तकदम्बकमुपाढौकते तर्हि साम्प्रतं स्वपक्षस्य दूरंदूरेणैव स्थातुं युक्तम्, अत्रोच्यते[भा.१०७२]चउवग्गो विहु अच्छउ, असंथराऽऽगंतुगा य वच्चंतु ।
वत्थव्वा व असंथरे, मोत्तु गिलाणस्स संघाडं। वृ. 'चतुर्वर्ग' नाम वास्तव्याः संयताः सयत्यश्च आगन्तुकाः संयताः संयत्यश्च । एते चत्वारोऽपि वर्गा एकस्मिन् क्षेत्रे यदि संस्तरति तर्हि तिष्ठन्तु न कोऽपि परस्परंमत्सरः कर्त्तव्यः । यदिसंस्तरणं न भवति ततआगन्तुका व्रजन्तु । अथागन्तुकभद्रकं तत्क्षेत्रमागन्तुका वाअदेशिका अखेदज्ञा वा ततो वास्तव्या आत्मनस्तेषां वा असंस्तरणे निर्गच्छन्ति । एवमागन्तुका वास्तव्या वा ये निर्गच्छन्ति तेषां यदि कश्चिद् ग्लानो भवेत् ततो ग्लानः ससमाटकस्तिष्ठति, तं मुक्त्वा शेषाः सर्वेऽपि गच्छन्ति। [भा.१०७३] एमेव संजईणं, वुड्डी-तरुणीण जुंगितकमाई।
पायादिविगल तरुणी, य अच्छए वुड्डिओ पेसे ।। वृ-'एवमेव' संयतवत् संयतीनां निर्गमनविधिरभिधातव्यः, परमत्र द्विकभेदः कर्त्तव्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org