SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-२, भा. १०३२] [भा. १०३२] भावियकुलेसु गहणं, तेसऽसति सलिंगे गेण्हमाऽवन्नो । विकरणकरणालोयण, अमुगगिहे पच्चओ गीते || वृ- अथ पूर्वच्छिन्नं न लभ्यते तत आत्मानऽपि च्छिन्दन्ति । तञ्च पूर्वच्छिन्नं भावितकुलेषु ग्रहीतव्यम् । तत्र यानि श्राद्धकुलानि माता- पितृसमानानि साधूनामपवादपदेऽप्राशुकादिकं गृह्णतामनुड्डाहकारीणि तानि भावितकुलान्युच्यन्ते । तेषामसति यद्यभावितकुलेषु स्वलिङ्गेन गृह्णाति ततो महानवर्णो भवति, अतस्तेषवन्यलिङ्गेन ग्रहीतव्यमिति लिङ्गद्वारमपि व्याख्यातम् । अथवा भावितकुलानामभावे यानि सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च एषा प्रज्ञापना मन्तव्या । एतानि पुनः प्रथम-द्वितीयभङ्गवर्तीनि प्रलम्बानि यत्र गृहीतानि तत्रैव विकरणानि कृत्वा आनीय गुरुसमीपे आलोचयति अगीतार्थप्रत्ययनिमित्तम्, यथा-अमुकस्य गृहे स्वार्थं कृतानि मया लब्धानीत्येषा आलोचना । यतना तु सर्वथा पूर्वच्छिन्नानामलाभे स्वयमपि च्छेत्तव्यानि, तानि च प्रथमं परीत्तानि ततोऽनन्तान्यपि पूर्वं स्वलिङ्गेन, तत इतरेणापि ॥ एतच्च निर्ग्रन्थानाश्रित्य भणितम् । अथ निर्ग्रन्थीनां विधिमतिदिशन्नाहएतेव अमी नियमा निग्गंथीण । [भा. १०३३] आमे भिन्नाभिन्ने, जाव उ पउमुप्पलाईणि ॥ २७७ वृ- एष एव गमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यो यावत् पद्मोत्पलादीनि “पउमुप्पल माउलिंगे” इत्यादिगाथां यावत् । एतच्च निर्युक्तिमङ्गीकृत्योक्तम्, भाष्यमाश्रित्य तु- “अमुगगिहे पचओ गीए " ति पर्यन्तं द्रष्टव्यम् । नवरं तासामामे प्रलम्बे भिन्ना भिन्नपदाभ्यां विधिभिन्नाऽविधिभिन्नपदसहिताभ्यां षड् भङ्गाः कर्त्तव्याः, ते चानन्तरसूत्रे स्वस्थान एव भावयिष्यन्ते ॥ सूत्रम् मू. (३) कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभित्रे वा पडिगाहित्तए । मू. (४) नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए । मू. (५) कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने ।। वृ- एतानि त्रीणि सूत्राणि समकमेव व्याख्यायन्ते कल्पते निर्ग्रन्थानां पक्वं तालप्रलम्बं द्रव्यतो भिन्नं वा अभिन्नं वा प्रतिग्रहीतुम् ३ । नो कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्बमभिन्नं प्रतिग्रहीतुम् ४ । कल्पते निर्ग्रन्थीनां पक्कं तालप्रलम्बं द्रव्यतो भिन्नं प्रतिग्रहीतुम्, तदपि च 'विधिभिन्नं' विधिना-वक्ष्यमाणलक्षणेन भिन्नं विदारितम्, नैव 'णं' वाक्यालङ्कारे अविधिभिन्नमिति सूत्रार्थः ५ ।। अथ निर्युक्तिविस्तरः [ भा. १०३४] नामं ठवणा पक्क, दव्वे भावे य होइ नायव्वं । उस्सेइमाइ तं चिय, पक्किंधणजोगतो पक्कं ॥ धू- नामपक्वं स्थापनापक्वं द्रव्यपक्वं च भवति ज्ञातव्यम् । तत्र नाम-स्थापने गतार्थे । द्रव्यपक्वं तदेवोत्स्वेदिमादिकं यद् आमं भणितम् । किमुक्तं भवति ? - यद् द्रव्यामं उत्स्वेदिमसंस्वेदिमोपस्कृतपर्यायामभेदात् चतुर्द्धा भणितम् तदेव यदा इन्धनसंयोगात् पक्वमुपजायते तदा द्रव्यपक्वं मन्तव्यम् ।। गतं द्रव्यपक्कम् । भावपक्वमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy