SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ बृहत्कल्प-छेदसूत्रम् - १-१/५ [ भा. १०३५] संजम चरितजोगा, उग्गमसोही य भावपक्वं तु । अन्नो वि य आएसो, निरुवक्क मजीवमरणं तु ॥ वृ-संयमयोगाः प्रत्युपेत्रक्षणादयश्चारित्रं च मूलोत्तरगुणरूपं सुविशुद्धं भावपक्व मुच्यते। गाथायां बन्धानुलोम्येन चारित्रशब्दस्य व्यत्यासेन निर्देशः । यद्वा या उद्गमादीनां दोषाणां शुद्धिस्तद् भावपक्वम् । अन्योऽ प्यादेशो वर्तते येन यद् आयुष्कं निर्वर्त्तितं तत् सर्वमनुपाल्य म्रियमाणस्य निरुपक्रमायुर्जीवस्य यद्भरणं तद् भावपक्कम् । अत्र च द्रव्यपक्वेणाधिकारः, तत्रापि पर्यायपक्वेण, तत्रापि वृक्षपर्यायपक्वेणेति ॥ गतं पक्वपदम् । अथ भिन्ना भिन्नपदे व्याचष्टे - [भा. १०३६] पक्के भिन्ना भिन्ने, समणाण वि दोसो किं तु समणीणं । समणे लहुओ मासो, विकडुभमाई य ते चेव ।। वृ- 'पक्कं ' यद् निर्जीवं तद् द्रव्यतो भिन्नं वा स्यादभिन्नं वा, तत्रोभयेऽपि श्रमणानामपि दोषो भवति 'किं तु' किं पुनः श्रमणीनाम् ? । श्रमणा यदि गृह्णन्ति ततो मासलघु द्वाभ्यामपि तपः- कालाभ्यां लघुकम्, विकटुभ-पलिमन्थादयश्च त एव दोषाः । इदमेव स्फुटतरमाह[भा. १०३७] आणादि रसपसंगा, दोसा ते चेव जे पढमसुत्ते । इह पुनसुत्तनिवाओ, ततिय- चउत्थेसु भंगेसु ।। वृ- आज्ञादयो रसप्रसङ्गादयश्च दोषास्त एव पक्वप्रलम्बग्रहणेऽपि भवन्ति ये प्रथमसूत्रे अभिहिताः । यद्येवं ततः सूत्रमपार्थकमित्याह - इह पुनः सूत्रनिपातस्तृतीय- चतुर्थयोर्भङ्गयोर्भवति, भावतो भिन्नमिति कृत्वा तृतीय- चतुर्थरूपं भङ्गद्वयमधिकृत्य सूत्रं प्रवृत्तमिति भावः ॥ [भा. १०३८] एमेव संजईण वि, विकडुभ-पलिमंथमाइया दोसा । कम्माईया य तहा, अविभिन्ने अविहिभित्रे य ।। वृ एवमेव संयतीनामपि विकटुभ-पलिमन्धादयो दोषाः । तथा अविभिन्नेऽविधिभिन्ने च प्रलम्बे हस्तकर्मादयः सविशेषा दोषा मन्तव्याः, अतस्तासां विधिभिन्नमेव कल्पते नाविधिभिन्नम्।। अत्र च षड्भङ्गीमाह [भा. १०३९] विहि-अविहीभिन्नम्मिय, समणीणं होतिमे उ छ ब्भंगा । पढमं दोहि अभिन्नं, अविहि-विही दव्व बिइ-तइए ॥ बृ- " से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने” इत्यत्र श्रमणीनां सूत्रे इमे षड् भङ्गा भवन्ति । "पढमं" इत्यादि, प्रथमं 'द्वाभ्यामपि भावतोऽपि द्रव्यतोऽप्यभिनन्म्, द्वितीयं भावतोऽभिन्नं द्रव्यतोऽविधिभिन्नम्, तृतीयं भावतोऽभिन्नं द्रव्यतो विधिभिन्नम् ॥ [भा. १०४०] एमेव भावतो वि य, भिन्ने तत्थेक्क दव्वओ अभिन्नं । पंचम छट्ठे दोहि वि, नवरं पुन पंचमे अविही ।। - एवमेव भावतो भित्रेऽपि भङ्गत्रयम् । तत्रैकं चतुर्थं भावतो भिन्नं द्रव्यतोऽभिन्नम्, पञ्चम भङ्गौ द्वाभ्यामपि भिन्नौ, 'नवरं' केवलं पञ्चमेऽविधिभिन्नम्, भावतो भिन्नं द्रव्यतोऽ विधिभिन्नमिति भावः । अर्थादापन्नं षष्ठे भावतो भिन्नं द्रव्यतो विधिभिन्नमिति ॥ अथ षट्स्वपि भङ्गेषु यथाक्रमं प्रायश्चित्तमाह [भा. १०४१] लहुगा तीसु परित्ते, लहुओ मासो उ तीसु भंगेसु । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy