SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-२, [भा. १००८] २७१ आसेव्यमानानि न दोषायोपतिष्ठन्ते, "इयरे "त्ति इतरस्मिन्-अकार्ये यतनया वा अयतनया वाऽऽसेव्यमानानि दोषायोपकल्पन्ते ।। अपि च[भा.१००९] आयुहे दुन्निसट्टम्मि, परेण वलसा हिए। वेताल इव दुजुत्तो, होइ पच्चंगिराकरो॥ वृ-यथा केनापि शारीरबलदर्पोद्भुतेन परवधायाऽऽयुधं निसृष्टं-मुक्तम्, तच्च दुर्निसृष्टं कृतं येन तदेव परेण 'हृतं गृहीतम्, यद्वा अनिसृष्टमेवायुधं परेण "बलस"त्ति छान्दसत्वाद् बलात्कारेण हृतम्, ततस्तस्मिन्नायुधे दुर्निसृष्टे परेण बलात्कारेण वाहृते सति तस्यैवतेन प्रतिघातः क्रियते । एवं त्वयाऽप्यस्पदभिप्रेतद्दष्टान्तप्रतिघाताय विषष्टान्त उपन्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन “न सर्वत्र दृष्टान्तःक्रमते" इति भवप्रतिज्ञायाः प्रतिघातः कृतः, स्वाभिप्रेतश्चार्थप्रसाधित इति। तथाकेनचिद्मन्त्रवादिना होम-जापादिभिर्वेताल आहूतआगतश्च, सच वेतालः, किञ्चित् तदीयस्खलितं दृष्टवा 'दुर्युक्तः दुःसाधितो न केवलं तस्य साधकस्याभीष्टमर्थं न साधयति किन्तु कुपितः सन् ‘प्रत्यङ्गिराकरः' प्रत्युत तस्यैव साधकस्योन्मत्ततादिलक्षणापकारकारी भवति; एवं भवताऽपि स्वपक्षसाधनार्थं विषदृष्टान्त उपात्तः स च दुःप्रयुक्तत्वात् प्रत्युत भवत एव प्रतिज्ञोपघातलक्षणमपकारमादधाति स्मेति ॥ किञ्च[भा.१०१०]निरुतस्स विकडुभोगो, अपत्थओ कारणे य अविहीए। इय दप्पेण पलंबा, अहिया कज्जे य अविहीए॥ वृ-यथा नीरुजस्यविशेषेण कटुकं विकटुकम्-औषधमित्यर्थः तस्य यो भोगः-उपयोगः, तथा 'कारणेच रोगादौ यस्तस्यैवाऽविधिना भोगः,स उभयोऽपि अपथ्यः' अहितः-विनाशकारणं जायते । 'इति' एवं 'दर्पण' कारणाभावेनाऽऽसेव्यमानानिप्रलम्बानि अहितानि' संसारवर्द्धनानि भवन्ति, कार्येच अवमौदर्यादौ अविधिना' अयतनया गृहीतानीह परत्र चाहितानि जायन्ते ।। अथ दृष्टान्तमेव समर्थयन्नाह[भा.१०११]जइ कुसलकप्पिताओ, उवमाओ न होज जीवलोगम्मि । छिन्नमं पिव गगने, भमिज्ज लोगो निरुवमाओ॥ वृ. कुशलैः-पण्डितैः कल्पिता:-तेषु तेषु ग्रन्थेषु विरचिताः 'उपमाः' दृष्टान्ता अस्मिन् जीवलोकेयदिनभवेयुस्तर्हि छिन्नाभ्रमिव' छिन्न-व्यवच्छिन्नमेकीभूतंयद्अभ्रंयद्यथाप्रचण्डपवनेन गगने इतस्ततो भ्राम्यते एवमयमपि लोकः 'निरुपमाकः' तत्तदर्थप्रसाधकदृष्टान्तविकलो दोलायमानमानसः संशयादिभिरितस्ततो भ्राम्येत, न कस्याप्यर्थस्य निर्णयं कुर्यादिति भावः । उक्तंच तावदेव चलत्यर्थो, मन्तुर्विषयमागतः। यावन्नोत्तम्भनेनेव, दृष्टान्तेनावलम्व्यते ।। एवं च बहुभिः प्रकारैर्व्यवस्थापितं दृष्टान्तं प्रमाणयन् शिष्यः प्राह-भगवन् ! यद्येवं ततः क्रियतां दृष्टान्तः। उच्यते, कुर्म, आकर्ण्यतां दत्तकर्णेन भवता[मा.१०१२] मरुएहि य दिलुतो, कायव्यो चउहि आनुपुव्वीए । एवमिहं अद्धाणे, गेलन्ने तहेव ओमम्मि ।। वृ-'मरुकैः' ब्राह्मणैश्चतुर्भिईष्टान्तः कर्तव्य आनुपूक् । एवं' मरुकष्टान्तानुसारेण इह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy