________________
२७०
बृहत्कल्प-छेदसूत्रम् -१-१/२ प्रतिपत्तेः । तथाहि[भा.१००४] जइ दिटुंता सिद्धी, एवमसिद्धी उ आणगेज्झाणं ।
अह ते तेसि पसिद्धी, पसाहए किन्नु दिटुंतो।। वृ-यदि दृष्टान्तादर्थानां सिद्धिस्तर्हि 'आज्ञाग्राह्याणां' निगोद-भव्या-ऽभव्यादीनामानामसिद्धि प्रसज्येत । अथ 'ते' तव आज्ञया तेषांप्रसिद्धिस्ततः 'किन्नु' इति वितर्के 'हुः' एवमर्थे किमेवं दृष्टान्ततोऽर्थसिद्धि क्रियते? ॥ किञ्चान्यत्[भा.१००५]कप्पम्मि अकप्पम्मि य, दिटुंता जेन होति अविरुद्धा।
तम्हा न तेसि सिद्धी, विहि-अविहिविसोवभोग इव ।। वृ-दृष्टान्तेन यद् यद् आत्मन इष्टं तत् तत् सर्वं यद्दच्छया प्रसाध्यते, यथा-कल्पते हिंसा कर्तुविधिनेति प्रतिज्ञा १, निष्प्रत्यपायत्वादिति हेतुः२, यथा विधिना विषोपभोग इति दृष्टान्तः, अस्य च भावना-यथा विधिना मन्त्रपरिगृहीतं विषं खाद्यमानमदोषाय भवति, अविधिना पुनः खाद्यमानं महान्तमनर्थमुपढौकयति ३, एवं हिंसाऽपि विधिना विधीयमाना न दुर्गतिगमनाय प्रभवति, अविधिनातु विधीयमाना दुर्गतिगमनायोपतिष्ठते ४, यतश्चैवमतो निष्प्रत्यपायत्वात् कल्पते कर्तुहिंसेति निगमनम् ५।एवं कल्प्येऽकल्प्येच येन कारणेन दृष्टान्ता अविरुद्धा भवन्ति, कल्प्यमप्यकल्प्यम् अकल्प्यमपिकल्प्यं यच्छया दृष्टान्तबलेन क्रियत इतिभावः, तस्माद् नैतेभ्यो दृष्टान्तेभ्योऽर्थानां सिद्धिर्भवति । गाथायां पञ्चम्यर्थे षष्ठी । विधिना अविधिना च विषोपभोग इवेति ॥ इत्थं नोदकेन स्वपक्षे स्थापिते सति सूरिराह__ [भा.१००६] असिद्धी जइ नाएणं, नायं किमिह उच्यते।
अह ते नायतो सिद्धी, नायं किं पडिसिज्झती ।। वृ-यदि 'ज्ञातेन' दृष्टान्तेनार्थानमसिद्धिस्ततस्त्वया 'ज्ञातं' विषदृष्टान्तः इह 'किमुच्यते' किमेवमभिधीयते? ।अथ 'ते' तव 'ज्ञाततः' दृष्टान्ततः सिद्धि ततोऽस्माभिरुच्यमानं ज्ञातं किं प्रतिषिध्यते? | किञ्च[मा.१००७] अंधकारोपदीवेण, वजए न उ अन्नहा।
तहा दिटुंतिओ भावो, तेणेव उ विसुज्झई॥ अन्धकारशब्दस्यपुनपुंसकलिङ्गत्वा यथाऽन्धकारो रात्रौ प्रदीपेनैव वय॑ते विशोध्यते 'नतु नैवान्यथा, विशोधितेच तस्मिन् घटादिकंवस्तुपरिस्फुटमुपलभ्यते; तथाऽत्रापि 'दान्तिकः' दृष्टान्तग्राह्यः ‘भावः' पदार्थोऽन्धकारवदतिगहनोऽपि तेनैव' दृष्टान्तेन प्रदीपकल्पेन 'विशुध्यते' निर्मलीभवति, विशुद्धे च तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिर्भवतीति दृष्टान्तोपदर्शनमत्र क्रियते । किञ्च सौम्य ! प्रीणिता वयं स्ववाक्येनैव भवता यद् दृष्टान्तेनार्थप्रसाधनमभ्युपगतम् । असमाकमपि त्वदीय एव द्दष्टान्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति॥कथम्? इति चेद् उच्यते[भा.१००८] एसेव य दिटुंतो, विहि-अविहीए जहा विसमदोसं।
होइ सदोसंच तथा, कञ्जितर जया-ऽजय फलाई ।। वृ. 'एष एव' त्वदुक्तो दृष्टान्तोऽस्माभिः प्रस्तुतसूत्रार्थेऽवतार्यते-यथा विधिना विषमुपभुज्यमानमदोषम्, अविधिना भुज्यमानं तदेव सदोषम्; तथा कार्ये यतनया फलादीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org