________________
२६८
बृहत्कल्प-छेदसूत्रम् -१-१/१
च्छत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता तथा वयमप्यस्मन्निमित्तकृतं किं नोपजीवामः ? । सूरिराह{मा.९९६]कामं खलु अनुगुरुणो, धम्मा तह वि हुन सव्वसाहम्मा।
गुरुणो जंतु अइसए, पाहुडियाई समुपजीवे ।। वृ-'कामम्' अनुमतंखल्चस्माकं यद् अनुगुरवो धर्मा, तथापिन सर्वसाधम्यात चिन्त्यते किन्तु देशसाधम्यार्देव। तथाहि-गुरवः' तीर्थकराः यत्तु' यत्पुनः अतिशयान्' प्राभृतिकादीन् प्राभृतिका-सुरेन्द्रादिकृता समवसरणरचना आदिशब्दादवस्थितनख-रोमा-ऽधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः तान्समुपजीवन्ति सतीर्थकरजीतकल्पः' इति कृत्वान तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वंतत्रैवानुधर्मता चिन्त्यते ।।
साचेयमनाचीर्णेति दर्शाते[मा.९९७] सगड-दह-समभोमे, अवि य विसेसण विरहियतरागं।
तह विखलु अणाइन्नं, एसऽनुधम्मोपवयणस्स ।। वृ- यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधास्तिषार्दिताः संज्ञाबाधिताश्च बभूवुः। यत्रच भगवानावासितस्तत्र तिलभृतानि शकटानि पानीयपूर्णश्च हृदः 'समभौमंच' गर्ता-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्यैश्च जीवैर्वर्जितमित्यर्थः तथापि खलु भगवता 'अनाचीण' नानुज्ञातम् । एषोऽनुधर्म 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रापहतपरिहारलक्षणएषएवधर्मोऽनुगन्तव्यइतिभावः ।।अथैतदेव विवृणोति[भा.९९८) वक्कंतजोणि थंडिल, अतसा दिन्ना ठिई अविछुहाए।
तह विन गेम्हिसु जिनो, मा हुपसंगो असत्यहए। वृ- यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः' अशस्त्रापहता अप्यायुःक्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततो न कल्पेरन्नित्यतआह-स्थण्डिलेस्थिताः। एवंविधाअपित्रसैः संसक्ता भविष्यन्तीत्याह'अत्रसाः'तदुद्भवा-ऽऽगन्तुकत्रसविरहिताः। तिलशकटस्वामिभिश्च गृहस्थैर्दत्ता, एतेन चादत्तादानदोषोऽपि तेषु नास्तीत्युक्तंभवति ।अपिचतेसाधवः क्षुधापीडिता आयुषः स्थितिक्षयमकार्षु तथापि 'जिनः' वर्द्धमानस्वामी नाऽग्रहीत्, ‘मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीत्तम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रापहतं मा ग्रहिषुः' इति भावात्, व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति हृदयम्; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्
प्रमाणानिप्रमाणस्थै, रक्षणीयानि यत्नतः।
विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ।। [भा.९९९] एमेव य निज्जीवे, दहम्मि तसवञ्जिए दए दिन्ने ।
समभोम्मे य अवि ठिती, जिमिता सन्नान याऽणुना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org