________________
२६२
बृहत्कल्प-छेदसूत्रम् -१-१/१ खजूर-मुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ।। अथ सर्वेषां सामान्येन परिणमनकारणमाह[भा.९७५] आरुहणे ओरुहणे, निसियण गोणादिणं च गाउम्हा ।
भुम्माहारच्छेदे, उवक्कमेणंच परिणामो ।। वृ-शकटे गवादिपृष्ठेषु च लवणादीनां यद् भूयो भूय आरोहणमवरोहणं च, तथा यत् तस्मिन् शकटादौ लवणादिभरोपरिमनुष्या निषीदन्ति, तेषांगवादीनांचयः कोऽपिपृष्ठादिगात्रोष्मा तेनचपरिणामोभवति।तथा योयस्य भौमादिकः-पृथिव्यादिक आहारस्तद्यवच्छेदेतस्य परिणामः' उपक्रमः शस्त्रम्, उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः। तचशस्त्र त्रिधा-स्वकायशस्त्र वा पाण्डुभूमस्येति । परकायशस्त्र यथा-अग्निरुदकस्य, उदकं वा अग्नेरिति । तदुमयशस्त्र यथा-उदकमृत्तिकाशुद्धोदकस्येत्यादि । एवमादीनिसचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि।। [भा.९७६] चोएई वनकाए, पगए लोणादियाण किं गहणं ।
आहारेणऽहिगारो, तस्सुवकारी अतो गहणं ।। वृ-शिष्यो नोदयति-'वनस्पतिकाये' प्रलम्बलक्षणेप्रकृते लवणादीनां पृथिवीकायिकानां किमर्थमत्र ग्रहणं क्रियते? इति । सूरिराह-आहारेण तावदत्र सूत्रेऽधिकारः, तस्य चाहारस्य लवणमतिशयेनोपकारि, तद्विरहितस्याऽऽहारस्य नीरसत्वात्, अतस्तद्ग्रहणमिति ।। यद्येवं ततः[भा.९७७]छहि निष्फजइ सो ऊ, तम्हा खलु आनुपुब्वि किं न कया।
पाहन्नं बहुयत्तं, निप्फत्ति सुहंच तो न कमो।। वृषड्भिः पृथिवीकायादिभि ‘सः' आहारो निष्पद्यतेअतः षडपिकायाः किं नानुपूर्व्या सूत्रे ‘कृताः' गृहीताः?, यथा- “नोकप्पइनिगंथाणवा निग्गंधीणवापुढविकाइएगिण्हित्तए" इत्यादि । आचार्य प्राह-तस्मिन्नाहारे वनस्पतेः प्राधान्यम्, मुख्यतया तस्यैवाऽऽहरणीयत्वात् । तथा 'बहुत्वम्' उपयोगबाहुल्यं वनस्पतिरागच्छति । वनस्पतिकायेन च यथा सुखमाहारस्य निष्पत्तिर्न तथा पृथिव्यादिभिः कायैः । तत एभि कारणैर्न 'क्रमः' पृथिव्यादीनामानुपूर्वीग्रहणलक्षणः कृतः, किन्तु केवलस्यैव वनस्पतेः सूत्रग्रहणं कृतमिति।।गतं क्षेत्रतो लक्षणम्। अथ कालत आह[भा.९७८] उप्पल-पउमाई पुण, उण्हे दिन्नाइँ जाम न धरिती!
मोग्गरग-जूहियाओ, उण्हे छूढा चिरं होंति॥ -उत्पलानिपद्मानिच 'उष्णे' आतपेदत्तानि "यामंप्रहरमात्रंकालं 'नध्रियन्ते' नावतिष्ठन्ते किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । 'मुद्गरकाणि' मगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वाद् उष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः ।। [भा.९७९] मगदंतियपुप्फाई, उदए छूढाइँ जाम न धरिती ।
उप्पल-पउमाइं पुण, उदए छूढा चिरं होति ॥ वृ-मगदन्तिकापुष्पाणिउदकेक्षिप्तानि याम प्रहरमपिनध्रियन्ते। उत्पल-पद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति, उदकयोनिकत्वात् ॥गतं कालतो लक्षणम् । अथ भावत आह[भा.९८०] पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं ।
विंटम्मि मिलाणम्मी, नायव्वं जीवविष्पजढं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org