________________
उद्देशक : १, मूलं-१, [ भा. ९८० ]
२६३
वृ-पत्राणां पुष्पाणां ‘सरडुफलानाम्' अबद्धास्थिकफलानां तथैव 'हरितानां' वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा 'वृन्ते' मूलनाले म्लाने सति ज्ञातव्यम्, यथा- जीवविप्रमुक्तमेतत् पत्रादिकम् ॥ उक्तं भावतोऽपि लक्षणम् । तदुक्तौ च समर्थितं चतुर्विधज्ञानद्वारम् ।
अथ ग्रहणद्वारमाह
[भा. ९८१] चउभंगो गहण पक्खेवए अ एगम्मि मासियं लहुयं । गहणे पक्खेवम्मिं, होंति अनेगा अनेगेसु ॥
वृ- चतुर्भङ्गी ग्रहणे प्रक्षेपके च द्रष्टव्या । तद्यथा-एकं ग्रहणं एकः प्रक्षेपकः १ एकं ग्रहणमनेके प्रक्षेपकाः २ अनेकानि ग्रहणानि एकः प्रक्षेपकः ३ अनेकानि ग्रहणानि अनेके प्रक्षेपकाः ४ । अत्र च हस्तेन यत् प्रलम्बानामादानं तद् ग्रहणम्, यत् पुनर्मुख प्रवेशनं स प्रक्षेपकः । तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु । द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतः प्रक्षेपकान् करोति तावन्ति मासलघूनि । तृतीयभङ्गे तु यावन्ति ग्रहणानि तावन्ति मासलघुकानि, प्रक्षेपविषयस्त्वेको लघुमासः । चतुर्थभङ्गेऽनेकेषु ग्रहणेष्वनेकेषुप्रक्षेपकेषुचानेकान्येव भासलघुकानि । एतच्चासामाचारीनिष्पन्नं मन्तव्यम् । यत् पुनर्जीवघातनिष्पन्नं चतुर्लघुकादिकं तत् स्थितमेव । एतच्च ग्रहण-प्रक्षेपकनिष्पन्नं प्रायश्चित्तं यथा केवली जानाति तथा गीतार्थोऽपीति । । गतं ग्रहणद्वारम् । अथ तुल्ये राग-द्वेषाभाव इति द्वारम् । तत्र शिष्यः प्राह
[भा. ९८२ ] पडिसिद्धा खलु लीला, बिइए चरिमे य तुल्लदव्वेसु । नियता वि हु एवं बहुघाए एगपच्छित्तं ।।
वृ- अहो ! भगवन्तो राग-द्वेषाध्यासितमनसः । तथाहि - 'तुल्यद्रव्येषु' समानेऽपि प्रलम्बद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभङ्गे एकफलस्य चरमभङ्गे तु बहूनां फलानां बहून् वारान् प्रक्षेपं करोतीति बहूनि मासिकानि दत्थ, तृतीयभङ्गे तु बहूनि वनफलनि गृहीत्वा छित्वा वा एकः प्रक्षेपक इति कृत्वैकं मासिकं ददध्वे, तद् मम मनसि प्रतिभासते नूनं लीलयैव युष्माभि प्रतिषिद्धा न पुनर्जीवोपघातः । एवं च भगवतां द्वितीयभङ्गे प्रलम्बजीवानामुपरि रागो बहुमासिकदानात्, तृतीयभङ्गे तु द्वेषः एकस्यैव मासिकस्य दानात्; यद्वा द्वितीयभङ्गे गृह्णतां शिष्याणामुपरि द्वेषः, तृतीये तु रागः, कारणं प्राग्वदेव । किञ्च युष्माकमेवं 'बहुघाते' युगपद् बहूनां मुखे प्रक्षिप्य भक्षणे एकमेव मासिकं प्रायश्चित्तं ददता निर्दयता भवति ॥
अथ राग-द्वेषाभावं समर्थयन् सूरि परिहारमाह
[भा. ९८३] चोयग ! निद्दयतं चिय, नेच्छंता विडसणं पि नेच्छामो ।
निव मिच्छ छगल सुरकुड, मता ऽमताऽऽलिंप भक्खणता ।।
वृ- हे नोदक ! निर्दयतामेवानिच्छन्तो वयं विदशनमपि नेच्छामः, विविधं दशनं भक्षणं विदशनं लीला इत्यर्थः । अत्र चाचार्या म्लेच्छद्वय ध्ष्टान्तं वर्णयन्ति- जहा एगस्स रत्रो दो मिच्छा ओलग्गगा । तेन रन्ना तेसिं मिच्छाणं तुट्ठेण दो सुरकुडा दो य छगला दिन्ना । ते तेहिं गहिया । तत्थ एगेणं छगलो एगप्पहारेणं मारितूण खइओ दोहिं तिहिं वा दिनेहिं । बितिओ एक्केक अंगं छेत्तुं खायति, तं पि सो छेदथामं लोगेणं आसुरीहिं वा छगणेण वा लिंपइ । एवं तस्स छगलस्स जीवंतस्सेव गाता छेत्तुं खइयाणि, मतो य । पढमस्स एगप्पहारेण एक्को वधो । बितियस्स जत्तिएहिं छेदेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org