________________
उद्देशक : १, मूलं-१, [भा. ९६८] उड्डीयमानो दृश्यते । पृथिवी नाम केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका लक्ष्णखटिकानिर्मिता वा, यथा तस्या भिद्यमानायाः समो भेदो भवति एवं समभेदेन भिद्यमानं तदेवंविधं मूलादिकमनन्तजीवं विजानीहि ॥ इदमेव स्पष्टयन्नाह[भा.९६९] जस्स मूलस्स भग्गस्स, समो भंगो पदीसई ।
अनंतजीवे उसे मूले, जे याऽवऽन्ने तहाविहे ॥ वृ-यस्य मूलस्य भग्नस्यसमो भङ्गःप्रद्दश्यते अनन्तजीवंतु तद् मूलम् ।यश्च 'अन्योऽपि' स्कन्धादिकस्तथाविधः समभङ्गेन भज्यते सोऽप्यनन्तजीवो ज्ञातव्य इति ।। [भा.९७०] जस्स मूलस्स भग्गस्स, हीरो भंगे पदिस्सए।
परित्तजीवे उसे मूले, जे याऽवऽने तहाविहे ।। वृ-यस्य मूलस्य भग्नस्य हीरः' तन्तुकविशेषो भने वंशस्येव प्रश्यते परीत्तजीवं तु तद् मूलम् । यश्च 'अन्योऽपि स्कन्धादिकस्तथाविधो भङ्गेश्यमानहीरः सोऽपि प्रत्येकजीव इति।। [मा.९७१] जस्स मूलस्स कट्ठातो, छल्ली बहलतरी भवे ।
अनंतजीवा उ सा छल्ली, जा याऽवऽन्ना तहाविहा॥ वृ-यस्य मूलस्य सम्बन्धिनः 'काष्ठात्' सारात् 'छल्ली' बाह्या त्वक् 'बहलतरा' स्थूलतरा भवेत्, यथाशतावर्या, अनन्तजीवातुसाछल्ली।याचान्याऽपितथाविधा। काष्ठमपितस्यानन्तजीवं द्रष्टव्यम्।। [भा.९७२] जस्स मूलस्स कट्ठातो, छल्ली तणुयतरी भवे ।
परित्तजीवा तु सा छल्ली, जा याऽवडण्णा तहाविहा।। वृ- यस्य मूलस्य काष्ठात् छल्ली 'तनुकतरा' श्लक्ष्णतरा भवेत् परीत्तजीवा तु सा छल्ली, यथा सहकारादेः, या चान्याऽपि तथाविधा ।गतं द्रव्यतो लक्षणम् । अथ क्षेत्रत आह[भा.९७३] जोअनसयंतु गंता, अनहारेणंतु भंडसंकती।
वाया-ऽगनि-धूमेण य, विद्धत्थं होइ लोणाई।। वृ-लवणादिकं स्वस्थानाद्गच्छत्प्रतिदिवसंबहुबहुतरादिक्रमेण विध्वस्यमानंयोजनशतात् परतो गत्वा सर्वथैव "विध्वस्तम्' अचित्तं भवति । आह शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवति? इत्याह-अनाहारेण, यस्य यद् उत्पत्तिदेशाधिकंसाधारणंतत्ततो व्यवच्छिन्नं स्वोपष्टम्भकाहारव्यवच्छेदा विध्वस्यते । तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात् पूर्वस्माद् भाजनादपरापरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते । तथा वातेन वा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति॥
"लोणाई" इत्यत्र आदिशब्दादमी द्रष्टव्याः[भा.९७४] हरियाल मनोसिल पिप्पली य खजूर मुद्दिया अभया।
आइन्नमणाइन्ना, ते विहु एमेव नायव्वा ।। -हरितालंमनःशिला पिप्पलीचखजूरः एते प्रतीताः, 'मुद्रिका द्राक्षा अभया' हरीतकी। एतेऽपि ‘एवमेव' लवणवद् योजनशतगमनादिभिः कारणैरचितीभवन्तो ज्ञातव्याः । परमेकेऽत्राचीर्णा अपरेऽनाचीर्णा । तत्र पिप्पली-हरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org