________________
२६०
बृहत्कल्प-छेदसूत्रम् - १-१/१ किं वाऽभ्यधिकः ? इति चिन्तायां निर्वचनं तुल्यो वा हीनो वा अभ्यधिको वा । यदि तुल्यस्तदा तुल्यत्वादेव नास्ति विशेषः । अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्याऽनन्तभागहीनो वा असङ्घयेयभागहीनो वा सङ्घयेयभागहीनो वा सङ्घयेयगुणहीनो वा असङ्घयेयगुणहीनो वा अनन्तगुणहीनो वा । अथाभ्यधिकस्ततो यदपेक्षयाऽभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिको वा असङ्ख्येयभागाभ्यधिको वा सङ्ख्येयभागाभ्यधिको वा सङ्ख्येयगुणाभ्यधिको वा असङ्ख्येयगुणाभ्यधिको वा अनन्तगुणाभ्यधिको वा । आह समाने सर्वेषामप्यक्षरलाभे षट्स्थानपतितत्वमेव कथं जाघटीति ? उच्यते-एकस्मात् सूत्रादनन्ता ऽ सङ्घयेय-सङ्घयेयगम्यार्थगोचरा ये मतिविशेषाः श्रुतज्ञानाभ्यन्तरवर्त्तिनस्तैः परस्परं षट्स्थानपतितत्वं न विरुध्यते । तदुक्तम्
अक्खरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । पुनमईविसेसे, सुयनाव्यंतरे जाण ।।
एवंविधं च षट्स्थानपतित्वं प्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति । यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति । अत एवाह - 'तेन' कारणेन यत् किमपि 'श्रुतं' चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्त्तते इति ॥
अथ यदुक्तं "प्रज्ञापनया द्वावपि तुल्यौ” तद्भावनामाह[भा. ९६६ ] केवलविन्नेयत्थे, सुयनाणेणं जिनो पगासेइ ।
सुयनाणकेवली विहु तेनेवऽत्थे पगासेइ ॥
वृ- केवलेन विज्ञेया येऽर्थास्तान् यावतः श्रुतज्ञानेन 'जिनः' केवली प्रकाशयति । इह च केवलिनः सम्बन्धी वाग्योग एव श्रोतॄणां भावश्रुतकारणत्वात् कारणे कार्योपचारात् श्रुतज्ञानमुच्यते, न पुनस्तस्य भगवतः किमप्यपरं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते, "नट्टम्मि उ छाउमत्थिए नाणे'' इति वचनात् । श्रुतज्ञानकेवल्यपि तानेव तावतः 'तेनैव' श्रुतज्ञानेन 'अर्थान्' जीवादीन् प्रकाशयति । अतः “ श्रुतकेवलि - केवलिनौ द्वावपि प्रज्ञापनया तुल्यौ " इति स्थितम् । तदेवं यथा केवली द्रव्य-क्षेत्र -काल- भावैर्वस्तु जानाति तथा गीतार्थोऽपि जानीते । अत्र पुनः प्रलम्बाधिकाराद् द्रव्यतः परीत्तमनन्तं वा येन लक्षणेन जानाति तदभिधित्सुराह
[ भा. ९६७ ]
गूढछिरागं पत्तं, सच्छीरं जं च होइ निच्छीरं । जं पिय पणट्टसंधि, अनंतजीवं वियाणाहि ।।
वृ - यत् पत्रं सक्षीरं निक्षीरं वा 'गूढशिराकं भवति' गूढाः- गुप्ता अनुपलक्ष्याः शिराः स्नायवो यस्य तद् गूढशिराकम्, तथा यदपि च 'प्रनष्टसन्धिकं' सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धिः, ' तदेवंविधं पत्रम् 'अनन्तजीवम्' अनन्तकायिकं विजानीहीति ।।
अथ मूल-स्कन्धादीनां सर्वेषामप्यनन्तकायत्वे लक्षणमाह
[ भा. ९६८ ] aari भजमाणस्स, गंठी चुण्णघंनो भवे । पुढविसरिसेण भेएणं, अनंतजीवं वियाणाहि ॥
वृ- यस्य मूलादेर्भज्यमानस्य चक्राकारो भङ्गो भवति सम इत्यर्थः । तथा 'ग्रन्थि' पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति । कोऽर्थः ? -यस्य भज्यमानस्य ग्रन्थेर्घनचूर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org