________________
उद्देशक : १, मूलं- 9, [भा. ९६१]
२५९
वृ- किं गीतार्थ केवली येन तीर्थकृत इव तस्य वचनं करणं चाकोपनीयम् ? । सूरिराहओमिति ब्रूमः । तथाहि द्रव्यादिभेदाद् यत् चतुर्विधं ज्ञानं तद् यथा केवलिनस्तथा गीतार्थस्यापि; तथा यत् प्रलम्बानामेकानेकग्रहणविषयं विषमप्रायश्चित्तप्रदानम्, यश्च तत्र तुल्येऽपि जीवत्वे राग-द्वेषाभावः, या चाऽनन्तकायस्य वर्जना एतानि यथा केवली प्ररूपयति तथा गीतार्थोऽपीति द्वारगाथासमासार्थः ॥ विस्तरार्थं प्रतिपदं बिभणिषुराह
[भा. ९६२] सव्व नेयं चउहा, तं वेइ जिणो जहा तहा गीतो । चित्तमचित्तं मीसं, परित्तऽनंतं च लक्खणतो ॥
वृ- 'सर्वमपि' जगत्रयगतं ज्ञेयं चतुर्धा । तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च । 'तत्' चतुर्विधमपि यथा 'जिनः' केवली ब्रूते तथा गीतार्थोऽपि । यद्वा "तं वेइ"त्ति 'तत्' चतुर्विधं ज्ञेयं यथा जिनः 'वेत्ति' जानाति तथा गीतार्थोऽपि श्रुतज्ञानी जानात्येव । तथाहि यथा केवली सचित्तमचित्तं मिश्रं परीत्तमनन्तं च लक्षणतो जानाति प्रज्ञापयति वा तथा श्रुतधरोऽपि श्रुतानुसारेणैव सचित्तलक्षणेन सचित्तं एवमचित्त-मिश्र परीत्ता ऽनन्तान्यपि स्वस्वलक्षणावैपरीत्येन जानाति प्ररूपयति चेति केवलीव द्रष्टव्यः ॥ आह केवली समस्तवस्तुस्तोमवेदी, श्रुतकेवली पुनः केवलज्ञानानन्ततमभागमात्रज्ञानवान् ततः कथमिव केवलितुल्यो भवितुमर्हति ? इत्याह[भा. ९६३ ] कामं खलु सव्वन्नू, नाणेणऽहिओ दुवालसंगीतो ।
पत्ती उतुल्लो, केवलनाणं जओ मूयं ॥
वृ- काममनुमतं खल्वस्माकं 'सर्वज्ञः' केवली 'द्वादशाङ्गिनः श्रुतकेवलिनः सकाशाद् ज्ञानेनाऽधिकः परं 'प्रज्ञप्तया' प्रज्ञापनया श्रुतकेवलिनः केवली 'तुल्यः' सध्शवाक्पर्यायः । कुतः ? इत्याह-यतः केवलज्ञानं 'मूक' अमुखरम् । किमुक्तं भवति ? - यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याऽ विषयभूता भावाः केवलिनाऽवगम्यन्ते तेषामप्रज्ञापनीयतया केवलिनाऽपि वक्तुमशक्यत्वात् ।। आह कियन्तः प्रज्ञापनीयाः ? कियन्तोवा अप्रज्ञापनीया भावाः ? इति तावद् वयं जिज्ञासामहे अतो निरुच्यतामेतद् भगवद्भिरित्याशङ्कयाह[ भा. ९६४ ] पन्नवणिजा भावा, अनंतभागो उ अनभिलप्पाणं । पन्नवणिज्जाणं पुण, अनंतभागो सुअ निबद्धो ॥
वृ- ये प्रज्ञापयितुं वक्तुं शक्यन्ते तेप्रज्ञापनीयाः अभिलाष्या इत्येकोऽर्थ, तेच भू-भूधरविमानग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः । द्वावपि च राशी अनन्तौ, परं महान् परस्परं विशेषः । तथाहि प्रज्ञापनीयाभावाः सर्वेऽपि समुदिताः सन्तोऽनभिलाप्यानां भावानामनन्तभागो भवति, अनन्ततमे भागे वर्त्तन्त इति भावः । तेषामपि प्रज्ञापनीयानां भावानामनन्ततम एव भागः 'श्रुते' द्वादशाङ्गलक्षणे सूत्ररचनया निबद्धः, अनन्तकस्याऽनन्तभेदभिन्नत्वादित्यभिप्रायः ।। आह कथमेतत् प्रतीयते यथा 'प्रज्ञापनीयानामनन्तभागः श्रुते निबद्धः' ? उच्यते
[भा. ९६५ ] जं चउदसपुव्वधरा, छट्टाणगया परोप्परं होंति । तेन उ अनंतभागो, पन्नवणिज्जाण जं सुत्तं ॥
बृ- 'यद्' यस्मात् चतुर्दशपूर्वधराः 'षट्स्थानगताः' अनन्तभागादिषट्स्थानवर्त्तिनः परस्परं भवन्ति । कथम् ? इति चेद् उच्यते-इह चतुर्दशपूर्वी चतुर्दशपूर्विणः किं तुल्यः ? किंवा हीनः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org