________________
उद्देशक : 9, मूलं- 9, [भा. ९४४ ]
सम्प्राप्ति सिद्धिरर्थेषु, विपत्तिश्च विपर्यये ॥ ततो न निष्पद्यत इत्युक्तं भवति । अत्रैव निदर्शनमाह
[भा. ९४५] नक्खेणावि हु छिज्जइ, पासाए अभिनवुट्ठितो रुक्खो । दुच्छेज्जो वİतो, सो चिय वत्थुस्स भेदाय ॥
वृ- प्रासादे वट-पिप्पलादिर्वृक्षः 'अभिनवोत्थितः' अधुनोद्गतः सन् नखेनाऽपि 'हु' निश्चितं 'छिद्यते' छेत्तुं शक्यते इति, अनेन कार्यस्य सुखसाध्यतोक्ता । स एव वृक्षः 'वर्धमानः ' शाखाप्रशाखाभि प्रसरन् दुश्छेद्यो भवति, कुठारेणापि च्छेत्तुं न शक्यत इति भावः । अपरं च 'वास्तुनः' प्रासादस्य भेदाय जायते ।।
[भा. ९४६] जोय अनुवायछिन्नो, तस्सइ मूलाई वत्युभेदाय । अहिनव उवायछित्रो, वत्थुस्स न होइ भेदाय ॥
२५५
वृ- यश्चानुपायेन-मूलोद्धरणलक्षणोपायमन्तरेण च्छिन्नः तस्यापि मूलान्यनुद्ध तानि वास्तुभेदाय जायन्ते । एतेन चानारम्भे अदेश-कालारम्भेऽनुपायारम्भे च सुखसाध्यस्यापि कार्यस्य विपत्ति क्लेशसाध्यता चोक्ता । अथ देश-काले उपायेन विधीयमानस्य यथा निष्पत्तिर्भवति तथा निदर्शयति-"अहिनव” इत्यादि उत्तरार्द्धम् । यस्तु वृक्षः 'अभिनवः' उद्गतमात्र उपायेनप्रयत्नपूर्वकं छिन्नो मूलान्यपि तस्योद्ध त्य करीषाग्निना दग्धानि स वास्तुनो भेदाय न भवति ॥
एष दृष्टान्तः । अयमस्यैवोपनयः
[भा. ९४७] पडिसिद्ध त्ति तिगिच्छा, जो उ न कारेइ अभिनवे रोगे । किरियं सो उ न मुच्चइ, पच्छा जत्तेण वि करेंतो ।।
वृ-यस्य साधोर्ज्वरादिको रोग उत्पन्नः स यदि -
"तेगिच्छं नाभिनंदेज्जा, संचिक्खऽत्तगवेसए । एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे ।।"
इति सूत्रमनुश्रित्य प्रतिषिद्धा चिकित्सा" इति कृत्वा अभिनवे रोगे 'क्रियां' चिकित्सां न कारयति स पश्चात् तस्मिन् रोगे प्रवर्धिते सति 'यत्नेनापि महताऽप्यादरेण क्रियां कुर्वाणो न मुच्यते रोगात् । यदि पुनरधुनोत्थित एव रोगे क्रियामकारयिष्यत् ततो नीरुगभविष्यत् ॥
[ भा. ९४८ ] सहसुप्पइअम्मि जरे, अट्ठम काऊण जो वि पारेइ । सीयल - अंबदवाणी, न हु पउणइ सोवि अनुवाया ।।
वृ-यो वा अनुपायेन क्रियां करोति सोऽपि न प्रमुणीभवति, यथा सहसोत्पन्ने ज्वरेऽन्यस्मिन् वा अजीर्णप्रभवे रोगे "सहसुप्पन्नं रोगं, अट्टमेण निवारए" इति वचनादष्टमं कृत्वा योऽपि न केवलं क्रियाया अकारक इत्यपिशब्दार्थः “सीयल अंबदवाणि "त्ति शीतलकूरा-ऽम्लद्रवादीनि पारयति 'मा पेया कारणीया भवतु' इति कृत्वा सोऽपि न प्रगुणीभवति 'अनुपायात्' उपायाभावात्, प्रत्युत तेन शीतलकूरादिना स रोगस्तस्य गाढतरं प्रकुप्यति । यदि पुनस्तेन पेयादिनोपायेनाऽपार यिष्यत् ततः पटुरभविष्यत् इत्युपाया ऽनुपायस्वरूपमगीतार्थो न जानाति । ततश्च “अज्ञात - मदेशकाले वा कार्यं कुर्वतस्तस्य शैक्षस्य विपत्तिमुपयाति" इति प्रकृतम् ॥ अत्रैव तात्पर्यमाह - [ भा. ९४९] संपत्ती य विपत्ती, य होज कजेसु कारगं पप्प ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org