________________
२५६
वृहत्कल्प-छेदसूत्रम् -१-१/१ अनुवायतो विवत्ती, संपत्ती कालुवाएहिं॥ वृ- सम्प्राप्तिश्च विपत्तिश्च कार्येषु 'कारकं' करिं प्राप्य भवति । यदि अज्ञः कर्ता ततस्तेनाऽदेश-काले अनुपायत आरब्धस्य कार्यस्य विपत्तिर्भवति । अथासौ ज्ञस्ततस्तेन कालोपायाभ्यां देशकाले उपायेन चारब्धस्य कार्यस्य 'सम्प्राप्ति' सिद्धिर्भवति ।। उपसंहरनाह[मा.९५०] इय दोसा उ अगीए, गीयम्मि उ कालहीणकारिम्मि ।
गीयत्थस्स गुणा पुण, हंति इसे कालकारिस्स ।। वृ-"इय" एवमगीतार्थे कार्यकर्तरि दोषा भवन्ति । गीतार्थेऽपि कालहीनकारिणि हीने वाअधिके वा काले कार्यकारिणि एत एव दोषाः ।यः पुनर्गीतार्थ उपायेनाऽन्युनातिरिक्ते काले कार्यं करोति तस्य गीतार्थस्य कालकारिण इमे गुणा भवन्ति ॥ तानेवाह[भा.९५१] आयं कारण गाढं, वत्युं जुत्तं ससत्ति जयणं च ।
सव्वं च सपडिवक्र्स, फलं च विधिवं वियाणाइ॥ - 'आर्य' लाभं 'कारणम्' आलम्बनं 'गाढम्' आगाढग्लानत्वं 'वस्तु' द्रव्यं दलिकमित्यनान्तरं 'युक्तं' योग्यं ‘सशक्तिकं' समर्थं यतनांत्रिपरिभ्रमणादिलक्षणाम्; एतदायादिकं सर्वमपि सप्रतिपक्षं गीतार्थो विजानाति । तत्राऽऽयस्य प्रतिपक्षोऽनायः, कारणस्याऽकारणम्, आगाढस्याऽनागाढम्, वस्तुनोऽवस्तु, युक्तस्याऽयुक्तम्, सशक्तिकस्याऽशक्तिकः, यतनाया अयतनेति यथाक्रमं प्रतिपक्षाः । तथा फलं चैहिकादिकं विधिवान् गीतार्थो विजानातीति नियुक्तिगाथासमासार्थः ।। अथ प्रतिपदं विस्तरार्थमाह[भा.९५२] सुंकादीपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिट्ठ।
एमेव य गीयत्थो, आयं ददु समायरइ॥ वृ- शुल्कं-राजदेयं द्रव्यम्, आदिशब्दाद् भाटक-कर्मकरवृत्यादिपरिग्रहः, यथा शुल्कादिभिर्द्रव्योपक्षयहेतुभिः परिशुद्धः-निर्वटितो यदि कोऽपि लाभ उत्तिष्ठते तत एवं शुल्कादिपरिशुद्ध लाभेसति वाणिजोदेशान्तरं गत्वावाणिज्यचेष्टां करोति' आरभते, अथ लाभमुत्तिष्ठमानं न पश्यति ततो नारमते । एवमेव च गीतार्थोऽपि ज्ञानादिकम् 'आय' लाभ दृष्टवा प्रलम्बाद्यकल्प्यप्रतिसेवां समाचरति नान्यथा॥इदमेव स्पष्टयन्नाह[भा.९५३] असिवाईसुंकत्थाणिएम किंचिखलियस्स तो पच्छा.
वायण वेयावच्चे, लाभो तव-संजम-ऽज्झयणे। वृ-स हि गीतार्थ प्रलम्बादिकं प्रतिसेवमान एवं चिन्तयति-अशिवादिषु शुल्कस्थानीयेषु अकल्प्यप्रतिसेवया केभ्योऽपि संयमस्थानेभ्यः स्खलितस्यापि मम 'ततः पश्चात्' अशिवादिषु व्यतीतेषु वाचनां ददत आचार्यादीनां वैयावृत्ये तपः-संयमा-ऽध्ययनेषु वा उद्यमं कुर्वाणस्य भूयानन्यो लाभो भविष्यति, अकल्प्यप्रतिसेवाजनितंचातीचारं प्रायश्चित्तेन शोधयिष्यामि-इति बहुतरं लाभमल्पतरं व्ययं परिभाव्य गीतार्थ समाचरति । अगीतार्थ पुनरेतदाय-व्ययस्वरूपं न जानातीति ।।गतमायद्वारम् । अथ कारणा-ऽऽगाढद्वारद्वयमाह - [भा.९५४] नाणाइतिगस्सऽट्ठा, कारण निक्कारणं तु तव्वजं ।
अहिडक विस विसूइय, सज्जक्खयसूलमागाढं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org