________________
२५४
बृहत्कल्प-छेदसूत्रम् -१-११
चतुर्थो भङ्गः शुद्धः ॥आद्यानां त्रयाणां भङ्गानां भावनामाह[भा.९४२] देसो वसोवसग्गो, पढमो तइओतु होइ वसनीवा।
बिइओ अजाणतुल्लो, सारो दुविहो दुहेक्केको । वृ- 'प्रथमः' प्रथमभङ्गवर्ती आचार्य सोपसर्गदेश इव परित्यक्तव्यः । 'तृतीयः' गीतार्थोऽप्यसारणिकत्वाद् व्यसनीव राजा परिहर्त्तव्यः । द्वितीयः' सारणिकोऽप्यगीतार्थत्वादज्ञनरेन्द्रतुल्य इति कृत्वा परिहार्य इति चूर्ण्यभिप्रायः।।
अथ निशीथचूर्ण्यभिप्रायेण व्याख्यायते प्रथमः सोपसदिश इव परिहार्य । द्वितीयः पुनरगीतार्थ परं सारणिकः स च व्यसनीव ज्ञातव्यः । किमुक्तं भवति ?-सोऽगीतार्थ सन् यत् किमपि स्वशिष्यान्नोदयति सानोदनातस्य व्यसनमिव द्रष्टव्यम्, अतो व्यसनाभिभूतभूपतिदसौ परिहार्यः।तृतीयः पुनरसारणिकत्वाद् गीतार्थोऽप्यज्ञनृपतुल्य इति कृत्वा परित्याज्यः व्याख्याने "देसो व सोवसग्गो, पढमो बिइओ उ होइ वसणी वा । तइओ अजाण तुल्लो" त्ति पाठो द्रष्टव्यः। पुस्तकेष्वपि बहुष्वयमेव द्दश्यत इति । यदुक्तं “रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो" त्ति तदेतद् भावयति-“सारोदुविहो दुहेक्केको' सारोद्विविधः-लौकिको लोकोत्तरिकश्च।पुनरेकैको द्विधा-बाह्य आभ्यन्तरश्च॥ एतदेव व्याचष्टे[भा.९४३] गो-मंडल-धन्नाई बज्झो कनगाइ अंतो लोगम्मि।
लोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई॥ वृ- गोशब्देन गावो बलीवास्वोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वादीनामपि परिग्रहः मण्डलमिति देशखण्डम्, यथा-पन्नवतिमण्डलानि सुराष्ट्रादेशः; अथवा गोमण्डलं नाम गोवर्ग, उपलक्षणत्वाद्मष्यादिवर्गोऽपि; धान्यानि शालिप्रभृतीनि, आदिशब्दाद्वास्तु-कुप्यादिपरिग्रहः; एष लौकिको बाह्यः सारः । कनक-सुवर्णम्, आदिग्रहणेन रूप्य-रत्नादीनि; एषः ‘अन्तः' इति आभ्यन्तरः सारः ‘लोके' लोकविषयो मन्तव्यः । एतेन द्विप्रकारेणापि सारेण राज्यं पार्थिवेनाऽचिन्त्यमानं निस्सारं भवति । लोकोत्तरिकः सारो द्विधा-अन्तर्बहिश्च । तत्रान्तःसारो ज्ञानम्, आदिशब्दाद् दर्शन-चारित्रे च । बहिसारो वस्त्रदिकः, आदिग्रहणेन शय्या-पात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिकसारेणाऽऽचार्येणाऽसार्यमाणो गच्छोनिस्सारोभवतीतिप्रकृतम्। तस्माद् गणिनो गच्छमसारयत एतत् प्रायश्चित्तम्। गीतार्थोपदेशमन्तरेण वाऽगीतार्थस्य स्वयमेव कार्येषु प्रवर्त्तमानस्याऽयं दोषो भवति ।। [भा.९४४] सुहसाहगं पि कज्ज, करणविहूणमणुवायसंजुत्तं ।
अनायऽदेस-काले, विवत्तिमुवजाति सेहस्स ।। वृ- सुखेन साधः-साधनं यस्य तत् सुखसधकम्, “शेषाद्वा" इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि कार्य करणम्-आरम्भः प्रयत्न इत्येकोऽर्थस्तद्विहीनम्, तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन संयुक्तम्, “अन्नाय"त्ति यद् यस्य कार्यमज्ञातं तत् तेनाऽऽरभ्यमाणम्, 'अदेश-कालेच अनवसरे विधीयमानं शैक्षस्याऽज्ञस्य विपत्तिमुपयाति। विपत्तिशब्देन कार्यस्याऽसिद्धिरत्राभिधीयते । तदुक्तम्
सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org