________________
२५३
-
उद्देशक : १, मूलं-१, [भा. ९३७] येणाऽसार्यमाणो निस्सारो भवतीति परिहरणीय इति सङ्ग्रहगाथाक्षरार्थः॥
अथैनामेव विवरीषुः प्रथमतो "देसो व सोवसग्गो" इति पदं व्याचष्टे[भा.९३८] ओमोदरिया यजहिं, असिवं च न तत्थ होइ गंतव्वं ।
उप्पन्ने न वसियव्वं, एमेव गणी असारणीओ ।। वृ-यत्र देशेऽवमौदरिका अशिवं च उपलक्षमत्वाद् अपरोऽप्युपद्रवो भवति तत्र गन्तव्यं न भवति, अथ तत्र देशे वसतामेवाऽवमौदर्यादिकमुत्पन्नं तत उत्पन्ने सति तत्र न वस्तव्यम्, एवमेव 'गणी' आचार्य 'असारणिकः' गच्छसारणाविकलो नानुगन्तव्यः ॥ अथ “वसनी व जहा अजानगनरिंदो" ति व्याख्याति[भा.९३९] सत्तण्हं वसणाणं, अन्नयरजुतो न जाणई रज्जं ।
अंतेउरे व अच्छइ, कजाइँ सयं न सीलेइ ।। वृ-यथा सप्तानां सनानामन्यतरेण व्यसनेन युतो राजा राज्यं पालयितुंन जानाति, यो वा शेषव्यसनैरनभिभूतोऽपि विषयलोलुपतया नित्यमन्तः पुरे आस्ते सोऽपि 'कार्याणि' व्यवहारादीनि स्वयमात्मना 'नशीलयति' नावलोकत इत्युक्तं भवति, ततश्च यथेच्छमुच्छृङ्खलाः प्रजाः सञ्जायन्ते। एवमाचार्योऽप्यगीतार्थोगीतार्थोवा सातगौरवादिव्यसनोपहततया यदि स्वगच्छं नसारयति तदा गच्छः सर्वोऽपि निरङ्कुशः सञ्जायते। यतश्चैवमतोऽसारणिक आचार्यो दूरंदूरेण परिहर्तव्यः ।। अथ व्यसनसप्तकमाह[भा.९४०] इत्थी जूयं मजं, मिगव्व वयणे तहा फरुसया य ।
दंडफरुसत्तमत्थस्स दूसणं सत्त वसणाई॥ वृ-यद्राजा अन्तःपुरस्त्रीषुनित्यमासविस्तष्ठतितत्स्त्रीव्यसनम् । यत्तुधूतविनोदेनानवरतं दीव्यति तद् धूतव्यसनम् । यत् पुनर्मद्यपानकेन नित्यं मूर्छित इवाऽऽस्ते तद्मद्यव्यसनम् । यत्तु मृगया-आखेटकस्तत्रानेकेषां मृगादिजन्तूनांवधंकरोति तद् मृगयाव्यसनम् । एतेषुचतुर्वप्यासक्तो राज्यकार्याणि न शीलयति । तथा यत् खर-परुषवचनैः सर्वानपि जनान् निर्विशेषमाक्रोशति तद् वचनपरुषताव्यसनम्, अत्र वचनदोषेण दुरधिगमनीयो भवति । यत् पुनरनपराधे स्वल्पे वाऽपराधे अत्युग्रं दण्डं निर्वर्तयति तद् दण्डपारुष्यव्यसनम्, अत्र च पौर-जानपदानामत्युग्रदण्डभयेन नश्यतां क्रमेण च प्रजाया अभावे कीद्दशं राज्यम् ? इति । अर्थोत्पत्तिहेतवो ये सामाधुपायचतुष्टयप्रभृतयःप्रकारास्तेषांयदूषणं तद् अर्थदूषणव्यसनम्, अत्र चार्थोत्पत्तिहेतून दूषयतोन तथाविधोऽर्थ उत्पद्यते, अर्थोत्पत्यभावे चाचिरादेवकोशः परिहीयते, परिहीणकोशस्य च विनष्टमेव राज्यम् । एतानि सप्त व्यसनानि ।। अथ प्रकारान्तरेण भङ्गानाह[भा.९४१] अहवा वि अगीयत्थो, गच्छंन सारेइ इत्थ चउभंगो।
बिइए अगीयदोसो, तइतो न सारेतरो सुद्धो॥ वृ-अथवा अगीतार्थो गच्छंन सारयतीत्यत्र चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम्-अगीतार्थो गच्छंन सारयति १ अगीतार्थो गच्छं सारयति २ गीतार्थो गच्छंन सारयति ३ गीतार्थो गच्छं सारयति । अत्र प्रथमस्य द्वौ दोषौ अगीतार्थत्वोषः असारणादोषश्च । द्वितीयस्य पुनरेक एवागीतार्थत्वदोषः । तृतीयस्तु यन्न सारयति स एकस्तस्याऽसारणादोषः । 'इतरः'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org