________________
२४०
बृहत्कल्प-छेदसूत्रम् -१-१/१ [भा.८८४] पोरिसिनासण परिताव ठावणं तेण देह उवहिगतं।
पंतादेवयछलणं, मणुस्सपडिणीयवहणं च ॥ वृ-कण्टकादिना पीडितः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थं नाशयति चतुर्गुरु । “परिताव"त्ति अनागाढपरितापे चतुर्लघु, आगाढपरितापेचतुर्गुरु । "ठावण"तिअनाहारं स्थापयति चतुर्लघु, आहारंस्थापयति चतुर्गुरु, परीत्तं स्थापयति चतुर्लघु, अनन्तंस्थापयति चतुर्गुरु, अस्नेहं स्थापयति चतुर्लघु, सस्नेह स्थापयति चतुर्गुरु । तथा "तेण" त्ति उपधिस्तेनाः, तैः उपधौ हियमाणे उपधिगतं जघन्यमध्यमोत्कृष्टोपधिनिष्पन्नं प्रायश्चित्तम्। “देह"त्ति देहस्तेनाः-शरीरापहारिणस्तैरेकः साधुः ह्रियते मूलम्, द्वयोर्टियमाणयोरनवस्थाप्यम्, त्रिषु ह्रियमाणेषु पाराञ्चिकम् । प्रान्तया देवतया यदिच्छलनं क्रियते ततश्चतुर्गुरु । प्रत्यनीकमनुष्येण पुरुषेण स्त्रिया नपुंसकेन वा हन्येत चत्वारो गुरवः ।। अथ प्रकृतमर्थमुपसंहरनन्तरमुपन्यस्यन्नाह[भा.८८५] एवं ता असहा, सहायसहिए इमे भवे भेदा !
जय अजय इत्थि पंडे, अस्संजइ संजईहिं च ।। वृ-एवंतावत असहायस्य एकाकिनोव्रजतोदोषा उक्ताः ।सहायसहितेव्रजति विचार्यमाणे एते सहायस्य भेदा भवन्ति । तद्यथा-'यताः' संयताः 'अयताः' असंयताः "इस्थि"त्ति पाषण्डिस्त्रियः ‘पण्डकाः' नपुंसकाः 'असंयत्यः' गृहस्थस्त्रियः “संयत्यः साध्व्यः, एतैः सार्धं गच्छति ।। इदमेव व्याचष्टे[भा.८८६] संविग्गाऽसंविग्गा, गीया ते चेव होंति अग्गीया।
लहुगा दोहि विसिठ्ठा, तेहि समं रत्ति गुरुगा उ॥ वृ-संविग्नागीतार्थाः,असंविग्ना गीतार्थाः, संविग्ना अगीतार्थाः, असंविग्नाअगीतार्थाः, एतैः समंगच्छतः द्वाभ्यां तपः-कालाभ्यां विशिष्टा लघुकाः प्रायश्चित्तम् । तद्यथा-संविग्नैर्गीतार्थे समं व्रजति चत्वारो लघवस्तपसा कालेन च लघुकाः, असंविग्नैर्गीतार्थे समं गच्छति चतुर्लघवः तपसा लघुकाः कालेन गुरुकाः, संविग्नैरगीतार्थे सार्धं याति चतुर्लघु कालेन लघु तपसा गुरु, असंविग्नैरगीतार्थे समं व्रजति चतुर्लघु तपसा कालेन च गुरु । एतद् दिवसतो ज्ञातव्यम् । रात्रौ तैःसमं व्रजतः एवमेव तपः-कालविशेषिताश्चतुर्गुरुकाः ।। [भा.८८७] अस्संजय-लिंगीहिं उ, पुरिसागिइपंडएहि य दिवा उ।
अस्सोय सोय छल्लहु, ते चेव उ रत्ति गुरुगा उ॥ वृ-असंयता द्विविधाः-गृहिणोलिङ्गिनश्च । लिङ्गमेषां विद्यत इति लिङ्गिनः-अन्यपाषण्डिन इत्यर्थः । तथा पुरुषाकृतयः-पुरुषनेपथ्यधारिणः पण्डकाः । एते त्रयोऽपि प्रत्येकं द्विविधाःशौचवादिनोऽशौचवादिनच। तत्राशौचवादिभिहिभिः समं व्रजति षड्लघु उभयलधुकम्, शौचवादिभिः समं व्रजतिषड्लघु कालगुरुकम् ।अन्यलिङ्गिभिरशौचवादिभि सार्द्धं व्रजति षड्लघु कालगुरुकम्,शौचवादिभिः समंव्रजतिषड्लघुतपोगुरुकम्। पुरुषाकृतिभिः पण्डकैरशौचवादिभिः समं व्रजतिषड्लघु तपोगुरुकम्, शौचवादिभिः समं व्रजति षड्लघु तपसा कालेन च गुरुकम्। एतद् दिवसतः प्रायश्चित्तमुक्तम् । रात्रौतुतएव' षण्मासाः गुरुकाः, षड्गुरवस्तपःकालविशेषिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org