________________
उद्देशकः १, मूलं-१, [भा. ८७९] परितापयतिमासगुरु, अपद्रावयतिचुतलघु एवमकायेतेजःकाये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम्; अनन्तवनस्पतिं यदि सचट्टयति तदा मासगुरु, परितापयति चतुर्लघु अपद्रावयति चतुर्गुरु; द्वीन्द्रियं सट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघु; श्रीन्द्रियं सफट्टयतश्चतुर्गुरु, परितापयतः षड्लघु, जीविताद् व्यपरोपयतः षड्गुरु; चतुरिन्द्रियं सट्टयतः षड्लघु, परितापयतः षड्गुरु, जीविताद् व्यपरोपयतः छेदः; पञ्चेन्द्रियं सट्टयतः षड्गुरु, परितापयतो लघुमासिकच्छेदः, अपद्रावयतो मूलम् ॥
अथैतदेव प्रायश्चित्तं रात्रौ विशेषयन्नाह[भा.८८०]जहिं लहुगा तर्हि गुरुगा, जहि गुरुगा कालगुरुग तहि ठाणे ।
छेदो यलहुय गुरुओ, काएसाऽऽरोवणा रत्तिं ॥ वृ-यत्र दिवसतः 'लघुकानि' मासलघु-चतुर्लधु-षड्लघुरूपाणि तत् रात्रावेतान्येव 'गुरुकाणि' मासगुरु-चतुर्गुरु-षड्गुरुरूपाणि कर्तव्यानि । यत्र पुनरग्रेऽपिगुरुकाणि मासादीनि तत्र स्थाने तान्येव कालगुरुकाणि दातव्यानि । यत्र चच्छेदो लघुकस्तत्र स एव गुरुकः कर्त्तव्यः। 'काये कायविषया एषा आरोपणा रात्रौ ज्ञातव्या ॥अथाऽऽत्मविराधनामाह[भा.८८१] कंट-ऽछि खाणु विजल, विसम दरी नित्र मुच्छ-सूल-विसे ।
वाल-ऽच्छभल्ल-कोले, सीह-विग-वराह-मेच्छित्थी॥ वृस साधुः कोट्टकादौ व्रजन् कण्टकेन वा अस्था वा स्थाणुना वा पदयोः परिताप्येत । 'विजलं' पङ्किलम् विषमं निम्नोत्रतम् 'दरी' कुसारादिका निम्नं गम्भीरा गर्ता; एतेषुपतितस्य मूर्छावा भवेत्, शूलं वाअनुधावेत्, "विसं"तिविषकण्टकेन वा विध्येत, विषफलं वा भक्षयेत्, तथा व्यालेन-सादिना अच्छभल्लेन वा-ऋक्षेण कालेन वा-महाशूकरेण सिंहेन वा वृकेण वा वाहेण वा उपद्रूयेत, म्लेच्छः पुरुष-प्रान्ततया प्रहारादिकं दद्यात्, स्त्री वा तं साधुमुपसर्गयेत्, अथवा म्लेच्छस्त्री-पुलिन्दीप्रभृतिका तमुपसर्गयेत्, तत्रिमित्तंम्लेच्छ: कुपितोवध-बन्धादि कुर्यात्।। [भा.८८२] तेने देव-मनुस्से, पडिनीए एवमाइ आयाए।
मास चउ छच्च लहुगुरु, छेदो मूलं तह दुगंच ।। वृ-स्तेनो द्विविधः-शरीरस्तेन उपधिस्तेनश्च, तेनोपद्रवः क्रियेत, देवता वाप्रान्ता तं साधु प्रमत्तं दृष्ट्वा च्छलयेत्, अपरोवा कोऽपिप्रत्यनीको मनुष्यो विजनमरण्यं मत्वा मारणादि कुर्यात्, एवमादिका आत्मनि विराधना भवति । तत्रेदं प्रायश्चित्तम्-"मास चउ" इत्यादि पश्चार्द्धम् । कण्टकादिभिरनागाढं परिताप्यते चतुर्लघु, आगाढं परिताप्यते चतुर्गुरु, अथ महादुःखमुत्पद्यते ततः षड्लघु, मू मूर्छषड्गुरु, कृच्छ्रप्राणेच्छेदः, कृच्छोच्छ्वासे मूलम्, मारणान्तिकसमुद्धातेऽनवस्थाप्यम्, कालगते पाराञ्चिकम्॥अथाऽऽत्मविराधनायामेव सामान्यतः प्रायश्चित्तमाह[भा.८८३] कंट-ऽट्ठिमाइएहिं, दिवसतो सव्वत्थ चउगुरू होति ।
रत्तिं पुण कालगुरू, जत्थव अन्नत्थ आयवहो। वृ-कण्टका-ऽस्थिकादिभिः परितापनायांसर्वत्र दिवसतश्चतुर्गुरवो भवन्ति । रात्रौ पुनस्त एव चतुर्गुरवः कालगुरवो ज्ञातव्याः । अन्यत्रापि यत्र 'आत्मवधः' आत्मविराधना भवति तत्र सर्वत्रापि चतुर्गुरवः प्रायश्चित्तम् । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org