________________
२३८
बृहत्कल्प-छेदसूत्रम् -१-१/१ प्रथमभङ्गरहिताः शेषास्त्रयो भड़काएकान्तरिताःशुद्धाः । इदमुक्तंभवति-प्रथमो भङ्गकश्चतुष्वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न काचित् तदीया विचारणा, तं मुक्त्वा ये प्रथमाष्टके शेषा भङ्गकास्ते एकान्तरितास्तृतीय-पञ्चम-सप्तमरूपास्त्रयः क्वचिदुत्पथादौ पदेऽशुद्धा अपि सालम्बनत्वाच्छुद्धाः प्रतिपत्तव्याः । अर्थादापन्नं द्वितीय-चतुर्थ-षष्ठा-ऽष्टमा भङ्गका दिवादी पदे शुद्धा अपिनिरालम्बनत्वादशुद्धाः। एवंद्वितीयाष्टकेऽपिप्रथमो भङ्गःशुद्धः शेषास्त्रयः एकान्तरिताः शुद्धाः, सालम्बनत्वात्।।अत एवाह[भा.८७५] पढमो एत्य उसुद्धो, चरिमो पुण सव्वहा असुद्धो उ।
अवसेसा वियचउदस, भंगा भइयव्वगा होति॥ वृ-प्रथमो भङ्गः 'अत्र' एषांषोडशानांमध्ये 'शुद्धः' सर्वथा निर्दोषः, चरमश्च भङ्गःसर्वथा अशुद्धः, अवशेषाश्चतुर्दश भङ्गाः भक्तव्याः' विकल्पयितव्या भवन्ति, केचित् शुद्धाः केचित् पुनरशुद्धा इति भावः।। कथम्? इति चेद् उच्यते[मा.८७६] आगाढम्मि उ कज्जे, सेस असुद्दो वि सुज्झए भंगो।
न विसुज्झे अनागाढे, सेसपदेहिं जइ वि सुद्धो॥ कृ-'आगाढेकार्ये' पुष्टे आलम्बनेगच्छतः 'शेषैः' रात्र्यत्पथानुपयुक्तलक्षणैः पदैरशुद्धोऽपि भङ्गःशुध्यति। 'अनागाढे' आलम्बनाभावेशेषैः-दिवापथोपयुक्तलक्षणैः पदैर्यधपिशुद्धस्तथापि न विशुध्यति॥अथ किं कुत्र प्रायश्चित्तं भवति? इत्युच्यते
[भा.८७७] लहुगाय निरालंबे, दिवसतो रत्तिं हवंति चउगुरुगा। • लहुगोय उप्पहेणं, रीयादी चेवऽनुवउत्ते।
वृ-यत्र यत्र निरालम्बस्तत्रतत्र दिवसतोगच्छतः चत्वारो लघुकाः, रात्रौचत्वारो गुरुकाः। यत्र यत्र दिवसत उत्पथेन तत्र तत्र मासलघु । यत्र यत्र दिवसत ईप्रिभृतिसमितिष्वनपयुक्तो गच्छति तत्र तत्र मासलघु । रात्रावुत्पथगमेऽनुपयुक्तगमने च मासगुरु ।।
अथ प्रकारान्तरेण प्रायश्चित्तमाह[भा.८७८]दिय-राओ लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगा य ।
संजम-आयविराधन, संजमे आरोवणा इणमो।। वृ-अशुद्धेषु भङ्गेषुसर्वेषवपि दिवसतोगच्छतश्चत्वारो लघुकाः, रात्रौ पुनश्चत्वारो गुरुकाः। तीर्थकराणामाज्ञाभने चतुर्गुरुकाः ।अनवस्थायांचत्वारो लघुकाः । मिथ्यात्वेऽपिचत्वारोलघुकाः। अत्रचानवस्था-मिथ्यात्वेप्रक्रमाद् द्रष्टव्ये । विराधना द्विविधा-संयमे आत्मनिच।तत्र संयमविराधनायाम् ‘इयं' वक्ष्यमाणा 'आरोपणा' प्रायश्चित्तम् ॥ तामेवाह[मा.८७९] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे।
__ संघट्टण परितावण, लहु गुरुगऽतिवायणे मूलं ।। कृ-'षटकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषांमध्ये 'चतुर्यु पृथिव्यप्तेजोवायुषु सट्टनादौ लघुकपर्यन्तं प्रायश्चित्तम् । परीत्ते' प्रत्येकवनस्पतिकायेऽपिलघुकान्तम् । साधारणे अनन्तवनस्पतौ गुरुकान्तम् । तथा द्वीन्द्रियादीनां सङ्घट्टने परितापनेच यथायोगंलघुकागुरुकाश्च प्रायश्चित्तम्, 'अतिपातने' विनाशने मूलम् । इयमत्र भावना-पृथिवीकायं सट्टयति मासलघु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org