________________
उद्देशकः १, मूलं-१, [भा. ८७०]
२३७
अथ बहिर्ग्रहणे प्रायश्चित्तमतिदिशन्नाह[भा.८७१] अंतो आवणमाईगहणे जा वन्निया सवित्थारा।
बहिया उ अन्नगहणे, पडियम्मिउ होइ सच्चेव ।। वृ-ग्रामादीनाम् 'अन्तः' मध्ये आपणादी-आपणे आपणवर्जे वा जुगुप्सितेऽगुप्सिते वा सपरिग्रहेऽपरिग्रहे वा ग्रहणेवा सविस्तरा "दिट्टे संका भोइय" इत्यादिलक्षणप्रपञ्चसहिता वर्णिता शोधिरित्युपस्कारः सैव ग्रामादीनां बहि पतितप्रलम्बविषयेऽन्यत्रग्रहणे निरवशेषा द्रष्टव्या ।। उक्तं बहिर्ग्रहणम्, तद्भणे च समर्थितं वसप्रदेशविषयं ग्रहणम् । अथाटवीविषयमाह[भा.८७२] कोट्टगमाई रन्ने, एमेव जणो उजत्थ पुंजेइ।
तहियं पुण वच्चंते, चउपयभयणा उछद्दसिया॥ कृ-'जनः' लोकः प्रचुरफलायामटव्यांगत्वाफलानियावत्पर्याप्तंगृहीत्वा यत्र गत्वा शोषयति, पश्चाद् गन्त्री-पोट्टलकादिभिरानीयनगरादौ विक्रीणातितत्कोट्टकमुच्यते।ततश्चारण्ये कोट्टकादौ प्रदेशे यत्र जनः फलानि शोषणार्थं 'पुञ्जयति' पुञ्जीकरोति तत्र प्रलम्बग्रहणे 'एवमेव' यथा वसिमे “दिढे संका भोइय" इत्यादिकमुक्तं तथैव प्रायश्चित्तमवसातव्यम् । विशेषः पुनरयम्"तहियंपुण" इत्यादि । तत्र पुनः' कोट्टकादौव्रजतः चतुर्भिपदैः 'भजना' भङ्गकरचना षड्दशिका' षोडशभङ्गप्रमाणा कर्तव्या ।। कथम् ? इतिचे उच्यते[भा.८७३] वचंतस्स य दोसा, दिया य रातोय पंथ उप्पंथे ।
उवउत्त अणुवउत्ते, सालंब तहा निरालंबे।। वृ-तत्र व्रजतो बहवो दोषा भवन्ति, ते चोपरिष्टाद् भणिष्यन्ते । दिवा च रात्रिश्च पन्था उत्पधश्च उपयुक्त अनुपयुक्तः सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना।अथ भावार्थ उच्यतेदिवा गच्छति पथा उपयुक्तः सालम्बः १ दिवा गच्छति पथा उपयुक्तो निरालम्बः ४, एवमुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते, जाता अष्टौ भङ्गाः ८, एते दिवापदममुञ्चता लब्धाः, एवं रात्रिपदममुञ्चताऽप्यष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया षोडश भङ्गाः॥अमीषांरचनोपायमाह[भा.८७४] अङ्कग चउक्त दुग एक्कगंच लहुगा यहोति गुरुगाय।
सुद्धा एगंतरिया, पढमरहिय सेसगा तिन्नि॥ वृ-इहाक्षाणांचतस्रः पङ्क्त्यः स्थाप्यन्ते। तत्रप्रथमपङ्क्तौ प्रथममष्टौ लघुकास्ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षेपणीयाः, द्वितीयपकौ चत्वारः प्रथमं लघुकास्ततश्चत्वारो गुरुकाः पुनश्चत्वारोलघुकास्तदनुचत्वारोगुरुकाः, तृतीयपकावपिषोडशाक्षा द्वौ लघुकौ द्वौ गुरुकावित्यनेन क्रमेण निक्षेप्याः, चतुर्थपकावेको लघुक एको गुरुक इत्येकान्तरितलघु-गुरुरूपाः षोडशैवाक्षाः स्थापयितव्याः । एवमन्यत्रापि भङ्गकप्रस्तारे यत्र यावन्तो भङ्गकास्तत्र तावदायामः चरमपङ्कावेकान्तरितानाम् अक्तिनपत्रिषु पुनर्द्विगुणद्विगुणानां लघु-गुरूणामक्षाणां निक्षेपः कर्तव्यः ।
उक्तञ्च
भंगपमाणायामो, लहुओ गुरुओ य अक्खनिक्खेवो।
आरओ दुगुणा दुगुणो, पत्थारे होइ निक्खेवो ।। एतेष्वेव शुद्धा-ऽशुद्धस्वरूपं दर्शयति-“सुद्धा एगंतरिया" इत्यादि ! प्रथमे भङ्गकाष्टके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org