SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१-१/१ वृ-क्षेत्रतो निवेशनमादौ कृत्वा यावद् ग्रामस्य सीमा एतेषुस्थानेषु गृह्णानस्य लघुकादिकं यावत् 'चरिमं पाराञ्चिकम् । किमुक्तं भवति?-निवेशने-महागृहपरिवारभूतगृहसमुदायरूपे गृह्णाति चत्वारो लघवः, पाटके गृह्णाति चत्वारो गुरवः, साहिकायां-गृहपङ्किरूपायां गृह्णाति षड् लघवः, एवं ग्राममध्ये षड् गुरवः, ग्रामद्वारे च्छेदः, ग्रामस्य बहिर्मूलम्, उद्यानेऽनवस्थाप्यम्, ग्रामसीमायां पाराञ्चिकम् । केषाश्चिदाचार्याणां मतेन 'विपरीतम्' उक्तविपर्यस्तं प्रायश्चित्तम् । तद्यथा-सीमायामन्यग्रामे वा गृह्णाति चतुर्लघु, उद्याने च चतुर्गुरु, ग्रामबहिः षड्लघु, ग्रामद्वारे षडगुरु, ग्राममध्ये च्छेदः, प्रायश्चित्तमष्टमे दिने 'स्वपदं पाराञ्चिकम् । इयमत्र भावना-प्रलम्बानि गृह्णतःप्रथमे दिवसे चत्वारो लघवः, द्वितीये चत्वारो गुरवः, तृतीये षड्लघवः, चतुर्थे षड्गुरवः, पञ्चमे च्छेदः, षष्ठे मूलम्, द्वितीये चत्वारो गुरवः, तृतीये षड् लघवः, चतुर्थे षडगुरवः, पञ्चमे च्छेदः, षष्ठे मूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम् ।। अथ प्रकारान्तरेण क्षेत्रत एव प्रायश्चित्तमाह[भा.८६९] निवेसण वाडग साही, गाममज्झे अगामदारे अ । उजाणे सीमाए, अन्नग्गामे य खेत्तम्मि॥ वृ-क्षेत्रे प्रकारान्तरेण प्रायश्चित्तमिदम्-निवेशने चतुर्लघु, पाटके चतुर्गुरु, साहिकायां षडलघु, ग्राममध्ये षड्गुरु, ग्रामद्वारे छेदः, उद्याने मूलम्, सीमायामनवस्थाप्यम्, अन्यनामे पाराश्चिकम् ॥अथ भावतः प्रायश्चित्तमाह[मा.८७०] भावऽहवार सपदं, लहुगाई मीस दसहि चरिमंतु। एमेवय बहिया वी, सत्ये जत्ताइठाणेसु ।। वृ-भावे अष्टाभिवारः 'स्वपदं' पाराञ्चिकम् । किमुक्तं भवति ?-एकं वारं प्रलम्बानि गृह्णाति चत्वारो लघवः, द्वितीयं वारं चत्वारो गुरवः, तृतीयं वारं षड् लघवः, चतुर्थं वारं षड् गुरवः, पञ्चमं वारंछेदः, षष्ठं वारं मूलम, सप्तमंवारमनवस्थाप्यम्, अष्टमंवारंगृह्णतः पाराञ्चिकम्। एतच्च सर्वमपि सचित्तप्रलम्बविषयं भणितम् । मिश्रप्रलम्बे तु गृह्यमाणे लघुमासादिकं दशभिः स्थानः 'चरमं पाराञ्चिकम् । तद्यथा-मिश्रप्रलम्बंगृह्णाने कल्पस्थकेन द्दष्टे मासलघु, महता पुरुषेण हटे शङ्कायां मासलघु, निशझे मासगुरुं, भोजिकायाः कथने चतुर्लघु, घाटिनो निवेदने चतुर्गुरु, ज्ञातीनां ज्ञापने षड्लघु, आरक्षिकाणां निवेदने षड्गुरु,सार्थवाहज्ञातेच्छेदः, श्रेष्ठिकथने मूलम्, अमात्यनिवेदिते अनवस्थाप्यम्, राज्ञो ज्ञापिते पाराञ्चिकम् । एतद् द्रव्यतः प्रायश्चित्तम्, क्षेत्रतः पुनरिदम्-निवेशने मासलघु, पाटके मासगुरु, साहिकायां चतुर्लघु, ग्राममध्ये चतुर्गुरु, ग्रामद्वारे षड्लघु, ग्रामबहिषड्गुरु, उद्यानेच्छेदः, उद्यानसीम्नोरन्तरेमूलम, सीमायामनवस्थाप्यम्, सीमायाः परतोऽन्यग्रामादौ पाराञ्चिकम् । कालतः पुनः प्रथमे दिवसे मासलघु, द्वितीये मासगुरु, एवं यावद् दशभिर्दिवसैः पाराञ्चिकम् । भावतः प्रथमं वारं गृह्णतो मासलघु, द्वितीयं मासगुरु, एवं यावद् दशभिवारैः पाराञ्चिकम् । गतमापण-तद्वर्जभेदाद् द्विविधमपि नामान्तर्विषयं ग्रहणम् । अथ ग्रामबहिर्भावग्रहणमाह-“एमेव य" इत्यादि पश्चार्द्धम् । एवमेव बहिरपि ग्रामस्य ग्रहणं भणितव्यम् । तत्पुनर्बहिर्ग्रहणं “सत्थे"त्तिसार्थावासस्थाने वा भवेद्यात्रादिस्थाने वा। यात्रास्थानं यत्र लोक उद्यानिकादियात्रया गच्छति, आदिशब्दादन्यस्याप्येवंविधस्थानस्यपरिग्रहः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy