________________
उद्देशक : १, मूलं- 9, [भा. ८६५ ]
२३५
मासलघु । अथ संयतं प्रलम्बं गृह्णन्तं दृष्ट्वा कल्पस्कस्यार्थ प्रयोजनं तस्योत्पत्ति- 'अहमपि गृह्णामि' इत्येवंलक्षणा भवति ततश्चतुर्लघवः । अथ न कगल्पस्थेन किन्तु महता पुरुषेण प्रलम्बं गृह्णानो दृष्टस्तदा "ते चेव" तू त एव चत्वारो लघवः । अथ तस्याप्यर्थोत्पत्ति - 'अहमपि गृह्णामि' इति लक्षणा जायते ततोऽपि चत्वारो लघवः । अत्र च ये दृष्टादयः परिवर्द्धमाना दोषा अन्यत्रग्रहणे भवन्ति ताननन्तरगाथया वक्ष्यमाणान् शृणुत ॥ तानेवाह
[भा. ८६६ ] दि संका भोइय-निआ -ऽऽरक्खि-सेट्ठि-राईणं । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥
वृ-युवादिना महता पुरुषेण प्रलम्बानि गृह्णन् दृष्टः चतुर्लघु । ततस्तस्य शङ्का जायते 'किं सुवर्णादिकं गृहीतम् ? उत प्रलम्बम् ? ' तदाऽपि चतुर्लघु । निशङ्किते चत्वारो गुरवः । अथासौ “भोइय" त्ति भोजयति भर्त्तारमिति भोजिका भार्या तस्याः कथयति- प्रिये! मया संयतः फलानि गृह्णानो दृष्टः' इत्युक्ते यदि तया प्रतिहतः "मैवं वादीः, न सम्भवत्येवेशं महात्मनि साधौ ' इति ततश्चतुर्गुरुकमेव । अथ तया न प्रतिहस्तस्ततः षड् लघवः । आसन्नतरः सम्बन्ध इति कृत्वा प्रथमं भोजिकाया अग्रे कथयतीति, एवं मित्रादिष्वपि मन्तव्यम् । ततः “घाडि"त्ति घाटः सङ्घाटः सौहृदमित्येकोऽर्थ, सविद्यतेऽस्येति 'घाटी' सहजातकादि वयस्य इत्यर्थः, तस्याग्रे तथैव कथयति, तेनापि यदि प्रतिहतस्तदा षड् लघव एव । अथ न प्रतिहतस्ततः षड् गुरवः । ततो निजाः-मातापित्रादयस्तेषां कथयति, तैः प्रतिहतः षड् गुरव एव । अप्रतिहते पुनश्छेदः । तत आरक्षिकेण आरक्षिकपुरुषैर्वा तस्य सकाशादन्यतो वा प्रलम्बग्रहणवृत्तान्ते श्रुते ततः प्रतिहते छेद एव । अप्रतिहते पुनर्मूलम् । ततः श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गस्य ततोऽन्यतो वा वृत्तान्तश्रवणे तेन च प्रतिहतेऽनवस्थाप्यम् । अप्रतिहते पाराञ्चिकम् । पश्चार्द्धे यथाक्रमममषीमेव प्रायश्चित्तान्यभिहितानि तानि च भावितान्येव । नवरं “दुगं" ति अनवस्थाप्यपाराञ्चिकद्वयम् ।। [मा. ८६७ ] एवं ता अदुगुछिए, दुगुछिए लसुणमाइ एमेव । नवरिं पुण चउलहुगा, परिग्गहे गिण्हणादीया ॥
वृ- एवं तावद् 'अजुगुप्सिते' आम्रादौ प्रलम्बे गृह्यमाणे प्रायश्चित्तं द्रष्टव्यम् । जुगुप्सिते पुनरिदं नानात्वम् । जुगुप्सितं द्विधा - जातिजुगुप्सितं स्थानजुगुप्सितं च । तत्र जातिजुगुप्सितं लशुनादि, आदिग्रहणेन पलाण्डुप्रभृतिपरिग्रहः । स्थानजुगुप्सितं पुनरशुचिस्थाने कर्दमादौ पतितम् । द्विविधेऽपि जुगुप्सिते 'एवमेव' अजुगुप्सितवत् प्रायश्चित्तं वक्तव्यम् । 'नवरं' केवलं पुनः कल्पस्थकदृष्टं जुगुप्सितं गृह्णानस्य चतुर्लघवोऽत्र ज्ञातव्याः । अजुगुप्सिते पुनः “कब्बट्ठदिट्ठे लहुओ" त्ति लघुमास एवोक्त इति विशेषः । एतच्च सर्वमप्यपरिग्रहमधिकृत्योक्तम् । “परिग्गहे गिण्हणादीय" त्ति यत् पुनः प्रलम्बं कस्यापि परिग्रहे वर्त्तते तस्मिन् जुगुप्सिते वा अजुगुप्सिते वा प्रायश्चित्तं तथैव वक्तव्यम्, परंयस्य श्रेष्ठयादेः परिग्रहे तानि प्रलम्बानि वर्त्तन्ते तत्कृता ग्रहणा-ऽऽकर्षण-व्यवहारादयो दोषा अत्राधिका भवन्तीति ॥
गतं द्रव्यतः प्रायश्चित्तम् । अथ क्षेत्रतः कालतश्च प्ररूपयति[ भा. ८६८ ] खेत्ते निवेसणाई, जा सीमा लहुगमाइ जा चरिमं । केसिंची विवरीयं, काले दिन अट्ठमे सपदं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org