________________
२३४
बृहत्कल्प - छेदसूत्रम् - १-१/१
कृ- प्रथम द्वितीययोर्द्वयोर्भङ्गयोश्चत्वारो लघुकाः, भावतोऽभिन्नतया सचेतनत्वात् । 'द्वयोस्तु' तृतीय- चतुर्थयोर्मासलघु । तथा प्रथमे भङ्गे ये चत्वारो लघुकास्ते द्वाभ्यामपि गुरवः तपसा कालेन च । द्वितीये भङ्गे ये चत्वारो लघवस्ते तपसा गुरवः कालेन लघवः । तृतीयभङ्गे यद् मासलघु तत् कालेन गुरु तपसा लघु । चतुर्थस्तु भङ्गो द्वाभ्यामपि लघुकः तपसा कालेन च । लघुकं तत्र (त्वत्र) मासलघु द्रष्टव्यमित्यर्थः ॥
[भा. ८६२] उग्धाइया परित्ते, होंति अनुग्घाइया अनंतम्मि । आणाऽणवत्थ मिच्छा, विराधना कस्स गीयत्ये ॥
वृ- एतानि प्रायश्चित्तानि 'उद्धातिकानि' लघुकानि 'परीत्ते' प्रत्येकप्रलम्बे भणितानि । 'अनन्ते' अनन्तकाये पुनरेतान्येव 'अनुद्धातिकानि' गुरुकाणि ज्ञातव्यानि, प्रथम-द्वितीययोश्चत्वारो गुरुकाः तृतीय- चतुर्थयोस्तु भङ्गयोर्मासगुरु प्रायश्चित्तं तपः कालविशेषितं पूर्ववद् वक्तव्यमिति भावः । तथा प्रलम्बं गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति, अनवस्था मिथ्यात्वं विराधना च संयमाऽऽत्मविषया कृता भवति । शिष्यः पृच्छति कस्यैतत् प्रायश्चित्तमाज्ञादयश्च दोषाः ? । गुरुराह -अगीतार्थस्य भिक्षोरिति । एतच्च सप्रपञ्चमुपरिष्टाद् भावयिष्यते ।। अथ प्रलम्बग्रहणे विस्तरेण प्रायश्चित्तं वर्णयितुकाम इमां द्वारगाथामाह
[ भा. ८६३ ] अन्नत्थ-तत्थगहणे, पडिते अच्चित्तमेव सच्चित्ते । छुमणाऽऽरुहणा पडणे, उवही तत्तो य उड्डाहो ॥
वृ- प्रलम्बग्रहणं द्विधा-अन्यत्रग्रहणं तत्रग्रहणं च । वृक्षादन्यत्र - अन्यस्मिन् प्रदेशे ग्रहणम् अन्यत्रग्रहणम्, तत्रैव वृक्षप्रदेशे ग्रहणं तत्रग्रहणम् । तथा पतितं वृक्षस्याधस्ताद् यद् गृह्णाति तद् द्विधा- अचित्तं सचित्तं च । तस्य पतितस्याप्राप्तौ वृक्षोपरिस्थितप्रलम्बपातनाय “छुभण”त्ति काष्ठादेः प्रक्षेपणम् । तथाऽप्यप्राप्तौ “आरुहण" ति तस्मिन् वृक्षे आरोहणं करोति । आरूढस्य च कदाचित् पतनं भवेत् । प्रलम्बं गृह्णन्तं दृष्ट्वा च प्रान्तेन केनचिदुपधिरपहियेत । ततश्चोड्डाहः सञ्जायेतेति द्वारगाथासमासार्थः ॥ विस्तरार्थं प्रतिद्वारं बिभणिषुः प्रथमतोऽन्यत्रग्रहणं विवृणोति
[भा. ८६४ ] अन्नगहणं तु दुविहं, वसमाणेऽडवि वसंति अंतो बहिं । अंताऽऽवण तब्वज्जे, रच्छा गिह अंतो पासे वा ।
वृ- अन्यत्रग्रहणं द्विविधम्, तद्यथा-वसति अटव्यां च । तत्र यद् वसति प्रदेशे तद् द्विधाग्रामादीनामन्तो बहिश्च । यद् ग्रामादीनामन्तस्तत् पुनर्द्विविधम्-आपणे तद्वर्जे च । आपणः हट्टः, तत्र स्थितस्य प्रलम्बस्य यद् ग्रहणं तद् आपणविषयम् । यत् पुनरापणवर्जे गृहे वा रथ्यायां वा गृह्णाति तत् तद्वर्जविषयम् । तत्र यद् आपणविषयं तद् आपणस्यान्तर्वा भवेत् पार्श्वतो वा । यत् तद्वर्जविषयं तदपि रध्याया गृहस्य वा अन्तर्वा भवेत् पार्श्वतो वेति । एतच्च सर्वमपि द्विधा - अपरिग्रहं सपरिग्रहंच । तत्रापणे तद्वर्जेवा अपरिग्रहे गृह्णानस्य द्रव्य-क्षेत्र काल- भावभेदात् चतुर्विधं प्रायश्चित्तम् ॥ तत्र द्रव्यतस्तावदाह[भा. ८६५ ]
कब्बठ्ठदिट्टे लहुओ, अप्पत्तीय लहुग ते चेव । परियडमाणदोसे, दिट्ठाई अन्नग्रहणम्मि ॥
वृ- कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमचित्तं गृह्णानो यदि दृष्टस्तदा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International