________________
उद्देशक : १, मूलं-१, [भा. ८५५]
२३३
वृ-अथवा “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणं भवति" इति न्यायो यतः समस्ति तेनाग्रप्रलम्बग्रहणेन तुशब्दाद् मूलप्रलम्बग्रहणेन च शेषाणि-कन्दादीनि प्रलम्बानि सूचितानि ।।
अथ पुनरपि परः प्राह[भा.८५६] तलगहणाउ तलस्सा, न कप्पे सेसाण कप्पई नाम ।
एगग्गहणा गहणं, दिटुंतो होइ सालीणं ।। वृ-'तलग्रहणात्' इति उपलक्षणत्वात् तालप्रलम्बग्रहणात् तालस्यैव सम्बन्धीनि मूलकन्दादीनि प्रलम्बानिन कल्पन्ते 'शेषाणां पुनः' आम्रादीनां प्रलम्बानि कल्पन्त इत्यर्थादापन्नम्। 'नाम' इति सम्भावनायाम्, सम्भाव्यते अयमर्थ इति भावः । सूरिराह-एकग्रहणात् तज्जातीयानां सर्वेषां ग्रहणं भवति, दृष्टान्तः शालिसम्बन्धी अत्र भवति । यथा 'निष्पन्नः शालि' इत्युक्ते नैक एवशालिकणो निष्पनः प्रतीयते किन्तु शालिजाति, तथाऽत्रापितलप्रलम्बग्रहणेन न केवलस्यैव तालस्य किन्तु सर्वेषां वृक्षजातीयानांप्रलम्बान्युपात्तानिप्रतिपत्तव्यानि ॥अथपुनरपि प्रश्नयति[भा.८५७) को नियमो उ तलेणं, गहणं अन्नेसिजेन न कयं तु ।
उभयमवि एइ भोगं, परित्त साउं च तो गहणं ।। वृ-को नाम नियमस्तलेन येन तस्यैव ग्रहणं कृतं नान्येषां वृक्षाणाम् ? । सूरिराह-तालस्य सम्बन्धि मूला-ऽग्रप्रलम्बरूपमुभयमपि भोगम्' उपयोगमेति, तथा परीत्तं प्रत्येकशरीरं 'स्वादु च' मधुरं तद् भवति, अतस्तस्य प्रतिषेधे सुतरामनन्तकायिकादीनां प्रतिषेधः कृतो भवति, ततस्तालस्य ग्रहणं कृतमिति ।। गतं प्रलम्बपदम् । अथ भिन्नपदं व्याचिख्यासुराह[भा.८५८] नामं ठवणा भिन्नं, दब्वे भावे अहोइ नायव्वं ।
दवम्मि घड-पडाई, जीवजढं भावतो भिन्नं ।। U-नामभिन्न स्थापनाभिन्नं द्रव्यभिन्नं भावभिन्नं च भवति बोद्धव्यम् । नाम-स्थापने क्षुन्ने। द्रव्यभिन्नं घट-पटादिकं वस्तु यद् भिन्न-विदारितम् । भावतो भिन्नं तु यद् जीवेन जढं-परित्यक्तं तद् मन्तव्यम् ॥अत्र चतुर्भङ्गीमाह[भा.८५९] भावेण य दव्वेण य, भिन्ना-ऽभिन्ने चउक्कभयणा उ ।
पढमंदोहि अभिन्नं, बिइयंपुन दव्वतो भिन्नं ।। वृ-भावेन च द्रव्येण च भिन्ना-ऽभिन्नयोः 'चतुष्कभजना' चतुर्भङ्गीरचना कर्तव्या । तत्र 'प्रथम' प्रथमभङ्गवर्ति प्रलम्ब 'द्वाभ्यामपि' भावेन द्रव्ये च अभिन्नम् । द्वितीयं पुनर्द्रव्यतो भिन्नं भावतस्त्वभिन्नम्॥ [भा.८६०] तइयं भावतो भिन्नं, दोहि विभिन्नं चउत्थगं होइ।
एएसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए ।। वृ-तृतीयं भावतो भिन्नं द्रव्यतः पुनरभिन्नम्। चतुर्थं 'द्वाभ्यामपि' भावतो द्रव्यतश्च भिन्नं भवति । एतेषां' चतुर्णामपिप्रायश्चित्तं यथाऽऽनुपूर्व्या यथोक्तपरिपाट्या वक्ष्यामि' भणिष्यामि।। प्रतिज्ञातमेव निर्वाहयति[भा.८६१]लहुगा य दोसु दोसुय, लहुओ पढमम्मि दोहि वी गुरुगा।
तवगुरुअ कालगुरुओ, दोहि वि लहुओ चउत्थो उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org