________________
बृहत्कल्प-छेदसूत्रम् -१-१/१
वृ- तलफलं नालिकेरफलं लकुचफलं कपित्थफलम् आम्रातकफलम् आम्रफलं चशब्दस्यानुक्तसमुच्चयार्थत्वाद् अन्यदपि कदलीफल - बीजपूरादिकम् एतदग्रप्रलम्बं ज्ञातव्यमानुपूर्व्या ।। अथ परः प्राह
[भा. ८५३] जइ मूल-ऽग्गपलंबा, पडिसिद्धा न हु इदानिं कंदाई । कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥
वृ- यदि मूलप्रलम्बा-ऽग्रप्रलम्बे प्रतिषिद्धे न पुनः 'इदानीम्' अस्मिन् सूत्रे ‘कन्दादयः’ कन्दस्कन्ध-त्वक्-शाखा-प्रवाल-प्र-पुष्प-बीजानि प्रतिषिद्धनि, यतश्चैतेषां प्रतिषेधं न करोति सूत्रं ततो मदीयायां मतौ प्रतिभासते - अवश्यमेते कन्दादयः कल्पन्ते प्रतिग्रहीतुं जीवा अपि सन्तः, अथवा तत्त्वतो नाऽमी जीवा भवन्ति, यदि हि जीवा भवेयुस्ततः प्रतिषेधोऽप्यमीषामस्मिन् सूत्रे कृतः स्यात्; अथेत्थं भणिष्यन्ति भवन्तः - जीवा एवामी न च कल्पन्ते ततः सूत्रं दुर्बद्धम् अथ ब्रवीध्वम्- जीवा अमीनच कल्पन्ते सूत्रं च सुबुद्धम्, ततः को वा विशेषहेतुस्तेषां कन्दादीनामग्रहणे येन तेन गृहीताः ? इति ॥ अत्र सूरि प्रतिवचनमाह
[ भा. ८५४] चोयग ! कन्नसुहेहिं, सद्देहि समुच्छितो विसह फासे । मज्झम्मि अट्ठ विसया, गहिया एवऽट्ठ कंदाई | - हे नोदक ! यथा दशवैकालिके -
कन्नसोक्खेहि सद्देहिं, पेमं नाभिनिवेसए । दारुणं कक्कसं फासं, कारण अहियासए ||
२३२
इत्यस्मिन् श्लोके "कर्णसुखैः' सुश्रवैः शब्दैरमूर्च्छितो भवेत्” इति शब्दविषयो रागः प्रतिषिद्धः, "विषहेत स्पर्श दारुणम्" इत्यनेन तु स्पर्शविषयो द्वेष इति शब्द-रूप-रस- गन्ध-स्पर्शानामिष्टानिष्टरूपतया दशविधानां मध्यादिष्टशब्दाऽनिष्टस्पर्शयोराद्यन्तयोरेव सूत्रलाघवार्थं ग्रहणं कृतम्, अन्यथा ह्येवमभिघातव्यं स्यात्
कन्नसोक्खेहि सद्देहिं, पेमं नाभिनिवेसए । दारुणं कक्कसं सद्दं, सोएण अहियासए । चक्खुसोक्खेहि रूवेहिं, पेमं नाभिनिवेसए । दारुणं कक्कसं रूवं, चक्खुणा अहियासए ।
परम् " आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्" इति न्यायादष्टावपि मध्यवर्त्तिनोऽनिष्टशब्दाद्या इष्टस्पर्शान्ता विषया गृहीता भवन्ति; एवमत्रापि 'सूत्रं बृहत्तरं मा भूत्' इति हेतोराद्यान्त्ययोरग्रमूलप्रलम्बयोर्ग्रहणे मध्यवर्त्तिनः कन्दादयोऽष्टावपि गृहीता द्रष्टव्याः । एतेषां मूल- कन्दादीनां दशानामपि मेदानां सुखप्रतिपत्त्यर्थमियं गाथा लिख्यते
मूले कंदे खंधे, तया य साले पवाल पत्ते य । पुप्फे फले य बीए, पलंबसुत्तम्मि दस भेया ॥ -प्रकारान्तरेण प्रतिवचनमाह -
[ भा. ८५५ ] अहवा एगग्गहणे, गहणं तज्जातियाण सव्वेसिं ।
तेनऽग्गपलंबेणं, तु सूइया सेसगपलंबा ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org