________________
उद्देशक : १, मूलं- 9, [भा. ८४७ ]
२३१
क्षुण्णे । द्रव्यतालः पुनरयम्-"जो भविउ "त्ति यः खलु 'भव्यः ' भावितालपर्यायः । स च त्रिधाएकभविको बद्धायुष्कोऽभिमुखनाम गोत्रश्च । तत्रैकंभविको नाम यो विवक्षितभवानन्तरं तालत्वेनोत्पत्स्यते, बद्धायुष्को येन तालोत्पत्तिप्रायोग्यमायुः कर्म बद्धम्, अभिमुखनाम-गोत्रः पुनर्विपाकोदयाभिमुखतालसम्बन्धिनाम- गोत्रकर्मा तालत्वेनोत्पित्सया विक्षिप्तजीवप्रदेशः । यद्वा द्रव्यतालो द्विविधः- मूलगुणनिर्विर्त्तित उत्तरगुणनिर्वर्त्तितश्च । तत्र स्वायुषः परिक्षयादपगतजीवो यः स्कन्धादिरूपस्तालः स मूलगुणनिर्वर्त्तितः यस्तु काष्ठ - चित्रकर्मादिष्वालिखितः स उत्तरगुणनिर्वर्तितः । एष द्रव्यातालः ॥ सम्प्रति भावतालमाह
1
[भा. ८४८] भावम्मि होति जीवा, जे तस्स परिग्गहे समक्खाया। बिइओ विय आदेसो, जो तस्स विजाणओ पुरिसो ॥
वृ- 'भावे' भावविषयस्तालो ये जीवाः 'तस्य' तालस्य परिग्रहे मूल कन्दादिगतास्ते सर्वेऽपि समुदिताः सन्तो भावताल इति समाख्याताः, नोआगमत इति भावः । द्वितीयोऽप्यत्देशोऽस्तियः ‘तस्य' तालस्य 'विज्ञायकः' उपयुक्तः पुरुषः सोऽपि भावताल उच्यते, आगमत इत्यर्थः । अत्र च नोआगमत भावतालेनाधिकारः, तस्य सम्बन्धि यत् फलं तदिह तालशब्देन प्रत्येतव्यम् ।। गतं तालपदम् । अथ प्रलम्बपदं विवृणोति
[भा. ८४९] नामं ठवण पलंबं, दव्वे भावे अ होइ बोधव्वं । अट्ठविह कम्मगंठी, जीवो उ पलंबए जेणं ॥
वृ-नामप्रलम्बं स्थापनाप्रलभ्बं द्रव्यप्रलम्बं भावप्रलम्बं च भवति बोद्धव्यम् | नाम-स्थापने सुगमे । द्रव्यप्रलम्बमेकभविक बद्धायुष्का-ऽभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च द्रव्यतालवद् भावप्रलम्बं च भावतालवद् वक्तव्यम् । यद्वा अष्टविधः कर्मग्रन्थिर्भावप्रलम्बमुच्यते। कुतः ? इत्याह-येन कर्मणा जीवः तुशब्दः संसारीति विशेषणार्थ 'प्रलम्बते' नैरयिकादिकां गतिं गतिं प्रति लम्बत इति तद् भावतः प्रलम्बम् । अत्र परः प्राह
[भा. ८५०] तालं तलो पलंबं, तालं तु फलं तलो हवइ रुक्खो । लंबं च होइ मूलं, झिज्झिरिमाई मुनेयव्वं ॥
वृ- किमिदं तालम् ? को वा तलः ? किं वा प्रलम्बम् ? । अत्र सूरिराह तालं तावत् फलं तलवृक्षसम्बन्धि तच्चाग्रप्रलम्बमुच्यते । तलः पुनस्तदाधारभूतो वृक्षः । प्रलम्बं पुनर्मूलं भवति, प्रलम्बशब्देनेह मूलप्रलम्बं गृहीतमिति भावः । तच्च 'झिज्झिर्यादिकं' झिज्झिरिप्रभृतिवृक्षसम्बन्धि “मुनेयव्वं " ज्ञातव्यम् ॥ तदेव मूलप्रलम्बमाह
[भा. ८५१] झिज्झिरि-सुरभिपलंबे, तालपलंबे अ सल्लइपलंबे । एतं मूलपलंबं नेयव्यं आनुपुवीए ।
वृ- झिज्झिरी-वल्लीपलाशकः सुरभि-सिग्गुकः तयोः प्रलम्ब - मूलम् । एवं तालप्रलम्बं च सल्लकीप्रलम्बम्, चशब्दादन्यदपि मूलं यद् लोकस्योपभोगमायाति तदेतद् मूलप्रलम्बं ज्ञातव्यमानुपूर्व्या । अथाग्रप्रलम्बं विवृणोति
[ भा. ८५२] तल नालिएर लउए, कविट्ठ अंबाड अंबए चेव ! एअं अग्गपलंबं, नेयव्वं आनुपुब्बीए ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org