________________
२३०
बृहत्कल्प-छेदसूत्रम् -१-१/१ तिन्दुकादीनि फलानि प्रक्षिप्य मध्यमायां करीषगायां "अगनि"त्ति अग्निर्दीयते, तासां च "पेरंत"तिपर्यन्तगर्तानां श्रोतांसिमध्यमगर्तयासहमीलितानि क्रियन्ते,ततस्तस्याः करीषगायाः सकाशाद् धूमस्तैःश्रोतोभि पर्यन्तगर्तासुप्रविशति, ततस्तच्छिद्रसम्बन्धिना धूमेन प्रसरता तानि फलानिपाच्यन्त इति, तेषां मध्ये यदामंतधूमपर्यायामम् ।।अथ गन्ध-वृक्षपर्यायामेभावयति[भा.८४३] अंबग-चिब्भिडमाई, गंधेणं जंच उपरि रुक्खस्स।
कालप्पत्त न पच्चइ, वत्थप्पलियामगंतंतु॥ वृ-आम्रक-चिर्भटादीनि आदिशब्दाद् बीजपुरकादीनियान्यपक्वानि फलानितेषां मध्ये पक्वानि प्रक्षिप्यन्ते, तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते, तत्र यद् अपक्वं फल तद् गन्धपर्यायामम् । तथा “जं च"त्ति चशब्दस्य पुनरर्थत्वाद् यत् पुनर्वृक्षस्योपरि शाखायां वर्तमान काले-वसन्तादिलक्षणेपाकगसमयेप्राप्तेऽपिपरिपक्केष्वप्यपरफलेषुन पच्यते तद् वृक्षपर्यायामम्।। व्याख्यातं चतुर्विधमपि पर्यायामम् । तथ्याख्याने च समर्थितं द्रव्यामम् । अथ भावामस्वरूपं निरूपयति[भा.c४] भावामं पिय दुविहं, वयणामं चेव नो य वयणामं ।
वयणाम अणुमयत्थे, आमं ति हि जो वदे वक्कं ॥ वृ-भावाममपिद्विविधम्-वचनामंचैवनोवचनामंच।वचनरूपमामवचनामम्, अनुमतार्थे 'आमम्' इति यः वाक्यं वचनं वदेत्तद्वचनामम्।यथा-कोऽपिसाधुगुरूणांकार्येणगच्छन्नपरेण पृष्टः-आर्य! किं गुरुकार्येण गम्यते?, स प्रत्याह-आमम्, एवमेतदित्यर्थः ।। [भा.८४५] नोवयणाम दुविहं, आगमतो चेव नो अ आगमतो।
आगमे नाणुवउत्तो, नोआगमओ इमं होइ॥ नोवचनामंद्विविधम्-आगमतश्चैव नोआगमतश्चातबागमतआमपदार्थज्ञानयुक्तस्तत्र चोपयुक्तः, उपयोगस्य भावरूपत्वाद्ज्ञानस्यचागमरूपतवात्।नोआगमतोभावाममिदं भवति।। तदेवाह[भा.८४६] उग्गमदोसाईया, भावतो अस्संजमो अआमविही।
अन्नो वियआएसो, जो वरिससयं न पूरेइ॥ -उद्गमदोषाः-आधाकर्मादयः, आदिग्रहणाद्उत्पादनादोषाएषणादोषाश्च, एतद्भावामं प्रतिपत्तव्यम् । तथाच आचाराङ्गसूत्रम्-सव्वामगंधं परिन्नाय निरामगंधो परिव्वए 'असंयमश्च' पृथिव्याधुपमर्दलक्षणो भावतःआमविधिरेव ज्ञातव्यः, चारित्रापक्वताकरणात् । यद्वाऽन्योऽपि 'आदेशः' प्रकारो भण्यते-योवर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमपूरयित्वा म्रियते सोऽपि भावतआमः, आयुषः परिपाकमन्तरेणमरणात्। अत्रच द्रव्यामेणाधिकारः, तत्रापिवृक्षपर्यायामेण, शेषाणामुच्चारितसद्दशतया विनेयव्युत्पादनार्थं प्रसङ्गतः प्ररूपितत्वात् ॥ व्याख्यातमामपदम् ।
अथ तालपदं विवृणोति[भा.८४७] नाम ठवणा दविए, तालो भावे य होइ नायव्यो ।
जो भविओ सो तालो, दव्वे मूलुत्तरगुणेसु ॥ वृ-नामतालः स्थापनातालो द्रव्यतालो भावतालश्च भवति ज्ञातव्यः । तत्र नाम-स्थापने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org