________________
उद्देशक : 9, मूलं-१, [भा. ८८७]
एवमेव दातव्या इति भावः ॥ [भा.८८८]
पासंडिणित्थि पंडे, इत्थीवेसेसु दिवसतो छेदो । तेहिं चिय निसि मूलं, दिय- रत्ति दुगं तु समणीहिं ॥ वृ-तापसी-परिव्राजिकादिभिः पाषण्डिनीभिः "इत्थि "त्ति गृहस्थस्त्रीभिः स्त्रीवेषधारिभिश्च पण्डकैरशौचवादिभिः सह दिवसतो गच्छतो लघुकश्छेदः शौचवादिभि सह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो गच्छतो लघुकश्छेदः शौचवादिभि सह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो मूलम् । श्रमणीभिः समं दिवा गच्छतोऽनवस्थाप्यम् । रात्रौ श्रमणीभिः सह गच्छति पाराञ्चिकम् ।। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह
[भा. ८८९] अहवा समणाऽसंजय-अस्संजइ-संजईहि दियराओ । चत्तारि छच्च लहु गुरु छेओ मूलं तह दगं च ॥
वृ- ' अथवा ' इति प्रकारान्तरद्योतने । 'श्रमणाः संयतास्तैः सार्द्धं दिवा गच्छति चतुर्लघु, रात्रौ गच्छति चतुर्गुरु । असंयतैः । सार्द्धं दिवा गच्छति षड्लघु, रात्रौ गच्छति षड्गुरु । असंयतीभिः समं दिवा व्रजति च्छेदः, रात्रौ गच्छति मूलम् । संयतीभि सह दिवसतो गच्छति अनवस्थाप्यम्, रात्रौ गच्छति पाराञ्चिकम् । तदेवमुक्तमटवीविषयं ग्रहणम् । तदुक्तौ चावसितमन्यत्रग्रहणम् । अथ तत्रग्रहणं बिभावयिषुरुक्तार्थसदृशं विधिमतिदिशन्नाह
[भा.८९०] जह चेव अन्नग्रहणेऽरन्नो गमणाइ वन्नियं एयं । तत्यगहणे वि एवं, पडियं जं होइ अञ्चित्तं ॥
२४१
वृ- यथैवान्यत्रग्रहणेऽरण्यविषयं षोडशभङ्गरचनया गमनम् आदिशब्दात् संयमाऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं च 'एतद्' अनन्तरमेव वर्णितं 'तत्रग्रहणेऽपि ' विवक्षितप्रलम्बाधारभूतवृक्षस्याधः पतितं यदचित्तं प्रलम्बं तद् गृह्णानस्याप्येवमेव निरवशेषं वर्णनीयं यावत् श्रमणीभिः सह गमनमिति । यस्तु विशेषस्तमुपदिदर्शयिषुराह
[ भा. ८९१] तत्थग्गहणं दुविहं, परिग्गहमपरिग्गहं दुविहभेयं । दिट्ठादपरिग्गहिए, परिगहिए अनुग्गहं कोईइ ॥
वृ-तत्रग्रहणं द्विविधम्, तद्यथा सपरिग्रहमपरिग्रहं च । यद् देवतादिभि परिगृहीतं वृक्षादि तद्विषयं सपरिग्रहम्, तद्विपरीतमपरिग्रहम् । तदुभयमपि द्विविधभेदं' द्विविधेन - सचित्ताऽ चित्तभेदद्वयेन भेदः पार्थक्यं यस्य तद् द्विविधभेदम्, सचित्ता - ऽचित्तभेदभिन्नमिति भावः । तत्र यदपरिगृहीतमचित्तं तद् गृह्णानस्य "दिट्ठाइ" त्ति "दिट्ठे संका भोइय" इत्यादिका आरोपणा सर्वाऽपि प्राग्वद् द्रष्टव्या । यत् पुनः परिगृहीतमचित्तं तद् गृह्णतः कश्चिद् भद्रकः परिग्रहीता अनुग्रहं मन्येत । एतदग्रतो भावयिष्यते ।। अथ सपरिग्रहस्यैव स्वरूपं निरूपयति
[भा.८९२] तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुकोसे ।
अहवा छल्लहुग चिय, अंत गुरू तिविह दिव्वम्मि ॥
वृ- सपरिग्रहं त्रिविधम्, तद्यथा देवपरिगृहीतं मनुष्यपरिगृहीतं तिर्यक्परिगृहीतं च । तत्र यद् दिव्यं - देवपरिगृहहीतं तद् त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । व्यन्तर परिगृहीतं जघन्यम्,
18 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org