________________
२१
पीटिका - [भा. ६३] तेषां तत्र विद्यमानत्वात् । त एव घकार-टकारा-5कारपर्याया रथशब्दादिषु भवन्त्यस्तित्वेनाऽ. सम्बद्धाः, तेषां तत्राऽभावात् । तदेवमस्तित्वेन स्वपर्यायास्तत्र सम्बद्धाः अन्यत्र चाऽसम्बद्धा उपदर्शिताः । एतदुपदर्शन चैतदादापत्रम्-ते स्वपर्यायास्तत्र नास्तित्वेनाऽसम्बद्धाः, अन्यत्रतु सम्बद्धा । तथा ते रथशब्दस्य स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात्, घटशब्देनाऽसम्बद्धाः, तेषांतत्रासत्त्वात्।तएव च रथशब्दे नास्तित्वेनाऽसम्बद्धाः, घटशब्दे तु सम्बद्धा इति ॥ तदेवं स्वपर्यायाः परपर्यायाश्च प्रत्येकं सम्बद्धा असम्ब असम्बद्धाश्च निदर्शिताः।
अधुना स्वपर्यायान् दर्शयति[भा.६४] संजुत्ता-ऽसंजुत्तं, इयं लभतेजेसुजेसु अत्थेसु ।
विनिओगमक्खरंते, सिहोति सम्भावपज्जाया ।। कृ. इति' एवंघटशब्द-रथशब्दादिगतेन प्रकारेणसंयुक्तमसंयुक्तंवा 'अक्षरम्' अकारादिक यषुयेष्वर्थेषु विनियोगं लभते तेतेषां सद्भावपर्यायाः' स्वपर्याया भवन्ति। अर्थादिदमायातम्अपरे परपर्याया इति ॥ तदेवमभिहितं व्यञ्जनाक्षरम्, तदभिधानाचाभिहितं त्रिविधमप्यक्षरम् । तत्र न केवलमप्यक्षरं संज्ञाक्षराधुच्यते किन्तु ज्ञानमपि । तत्र शिष्यः प्रश्नयति-कियत्प्रमाणंतदक्षरम् ? उच्यते, सर्वाकाशप्रदेशेभ्योऽनन्तगुणम्। कथमेतावप्रमाणम्? उच्यते-इहैकैक आकाशप्रदेशः स्वल्वनन्तैरगुरुलघुपर्यायैः संयुक्तः, ते च सर्वेऽप्यगुरुलधुपर्याया ज्ञानेन ज्ञायन्ते; न च येन स्वभावेनैको ज्ञायते तेनापरोऽपि, तयोरेकत्वप्रसङ्गात्, किन्त्वन्येन स्वभावेन, ततो यावन्तोऽगुरुलघुपर्यायास्तावन्तो ज्ञानस्वभावाः; उक्तञ्च- जावइय पज्जवा ते, तावइया तेसु नाणभेया वि । इति भवति सर्वाकाशप्रदेशेभ्योऽनन्तगुणम् । आह च बृहद्भाष्यम्
अक्खरमुच्चइ नाणं, तं पुन होजाहि किंपमाणं तु? ।
भण्णइ अनंतगुणियं, सव्वागासप्पएसेहिं ।। किह होइ अनंतगुणं, सव्वागासप्पदेसरासीतो? ।
भन्नइ जं एक्केको, आगासस्सा पदेसो उ ॥ संजुत्तोऽनंतेहिं, अगुरुलघुपज्जवेहि नियमेण ।
तेन उ अनंतगुणियं, सव्वागासप्पएसेहिं ।। पुनरपिशिष्यःप्राह-कथमेतदवसीयते 'एकैक आकशप्रदेशोऽनन्तैरगुरुलघुपर्यायैरुपेतः'? उच्यते-इह द्विविधं वस्तु, रूपिद्रव्यमरूपिद्रव्यं च। तत्र रूपिद्रव्यं चतुर्द्धा, तद्यथा-गुरु लघुगुरुलघु अगुरुलघु च । एतदप्युच्यते व्यवहारतः, निश्चयतः पुनर्द्विविधमेव गुरुलघु अगुरुलघु च । तथा चाह[भा.६५] निच्छयतो सव्वगुरुं, सव्वलहुं वा न विजते दव्वं ।
ववहारतो तुजुञ्जति, बादरखंधेसु नऽन्नेसु।। वृ-'निश्चयतः' निश्चयनयमतेन नि किञ्चिद्रव्यं सर्वगुरु एकान्तगुरु, यदि स्यादेकान्तगुरु तत एकान्तेनैव पतनधर्मि स्यात्, न च पतति, तस्मान् नविद्यते सर्वगुरु; नाऽपि 'सर्वलघु' एकान्तलघु, यदि स्यादेकान्तलघुततोन कदाचित् पतति, अथकदाचित् पततितस्मान्न सर्वलध्वपि। 'व्यवहारतः' व्यवहारनयमतेन पुनयुज्यते सर्वगुरु सर्वलघुच । केषु? इत्याह- 'बादरस्कन्धेषु' For Private & Personal Use Only
www.jainelibrary.org
Jain Education International