________________
बृहत्कल्प-छेदसूत्रम् -9
शृण्वतः श्रवणस्य न च्छदो नाऽपि दाहो नाऽपि पूनम्, अतो ज्ञायतेऽभिधेयादभिधानं भिन्नम्, अन्यथा तादाम्यसम्बन्धात् क्षुरादयोऽपि तत्र सन्तीति वदनस्य श्रवणस्य च च्छेदादिप्रसङ्गः ।। अभिन्नत्वं नाम सम्बद्धत्वम्, तथाच लोकेऽप्यभिन्नशब्दः सम्बद्धवाची व्यवह्नियते, यथा-अयमस्माकं खादन- पानेनाऽभिन्नः, सम्बद्ध इत्यर्थः । ततस्तदेव सम्बद्धत्वं भावयति
२०
[भा. ५९ ] जम्हा उ मोयगे अभिहियम्मि तत्थेव पच्चओ होइ । न य होइ सो अणत्ते, तेन अभिन्नं तदत्थातो ॥
वृ- यस्मान्मोदकेऽभिहिते 'तत्रैव' मोदके प्रत्ययो भवति नाऽन्यत्र । न च 'सः' नियमेन तत्र प्रत्ययः 'अन्यत्वे' असम्बद्धत्वे सति भवति, सम्बन्धाभावतो नियामकाभावेनाऽन्यत्रापि तव्प्रत्यय प्रसक्तेः । 'तेन' कारणेन ज्ञायते 'तद्' अभिधानम् 'अर्थादभिन्नम्' अर्थेन सह वाच्यवाचकभावसम्बद्धम् ॥ [भा. ६०]
एक्केक्कमक्खरस्स उ, सप्पजाया हवंती इयरे य । संबद्धमसंबद्धा, एकेका ते भवे दुविहा ॥
वृ- व्यञ्जनस्य यान्यक्षरामि तस्याक्षरस्यैकैकस्य द्विविधाः पर्यायाः, तद्यथा-स्वपर्यायाः 'इतरे च' परपर्यायाः । तत्र अवर्णस्त्रिधा ह्रस्वो दीर्घ प्लतश्च, पुनरेकैकस्त्रधा उदातोऽनुदात्तः स्वरितश्च, पुनरेकैको द्विधा-सानुनासिको निरनुनासिकश्च, एवमष्टादशप्रकारो अवर्ण। उक्तञ्चहस्व-दीर्घप्लुतत्वाच्च स्वर्योपनयेन च ।
अनुनासिकभेदाच्च, सङ्ख्यातोऽष्टादशात्मकः ।।
एते अवर्णस्य स्वपर्यायाः । तथा ये एकैकाक्षरसंयोगतो द्विद्यक्षरसंयोगत एवं यावन्तो घटते संयोगास्तावत्संयोगवशतो येऽवस्थाविशेषा ये च तत्तदर्थाभिधायकत्वस्वभावस्तेऽपि तस्य स्वपर्यायाः । इतरे च तत्रासन्तः परपर्यायाः । एवमिवर्णादीनामपि स्वपर्यायाः परपर्यायाश्च वक्तव्याः । येऽपि परपर्यायास्तेऽपि तस्येति व्यपदिश्यन्ते, व्यवच्छेद्यतया तेषां तद्विशेषकत्वात्, यथा - अयं मे पर इति । 'तेच' स्वपर्यायाः परपर्यायायाश्च एकैके द्विविधा भवन्ति तद्यथा-सम्बद्धा असम्बद्धाश्च ॥ एतदेव भावयति
[भा. ६१]
अत्थित्ते संबद्धा, होंति अकारस्स पजया जे उ । ते चेव असंबद्धा, नत्थित्तेणं तु सव्वे वि ॥
वृ-ये अकारस्य 'पर्यायाः' स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धा भवन्ति । नास्तित्वेन पुनस्त एव सर्वेऽप्यसम्बद्धाः, तत्र तेषां नास्तित्वाभावात् ॥
[भा.६२]
एमेव असंता विउ, नत्थित्तेणं तु होंति संबद्धा ।
ते चेव असंबद्धा, अत्थित्तेणं अभावत्ता ॥
वृ- 'एवमेव ' अनेनैव प्रकारेण असन्तः परपर्याया अपि नास्तित्वेन भवन्ति सम्बद्धाः, ते चैव परपर्याया अस्तित्वेनासम्बद्धा:, तेषामस्तित्वस्य तत्राभावत्वात् ।। अत्रैव निदर्शनमाहघडसद्दे घ-ड-ऽकारा, हवंति संबद्धपज्जया एते ।
[भा. ६३]
ते चेव असंबद्धा, हवंति रहसद्दमादीसु ॥
कृ- घटशब्दे ये घकार-टकारा -ऽकारास्तेषांचे पर्यायास्त एते भवन्ति तत्रास्तित्वेन सम्बद्धाः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International